Book Title: Saptanaya Vivaran
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 9
________________ ऑक्टोबर 2002 प्रदेशः / प्रदेशस्तु पञ्चास्तिकायविषयेऽस्ति / प्रदेश प्रदेशे यदि पञ्चविधत्वमुच्यते तदा पञ्चविंशतिप्रदेशाः स्युः / अतो भाज्यप्रदेशान् वद - एकस्मिन् प्रदेशे पञ्च विकल्पाः सन्ति - अयं धर्मास्तिकायप्रदेश: 1 किंवा अधर्मास्तिकायप्रदेश: 2 किंवा आकाशास्तिकायप्रदेशः 3 उत जीवास्तिकायप्रदेशः 4 किंवा पुगलास्तिकायप्रदेशः 5, एवं पञ्च विकल्पान् ऋजुसूयनयो वक्ति / 4 __अथ शब्दनयो वक्ति - हे ऋजुनय ! त्वं भाज्यप्रदेशं मा वद / एवं उच्यमाने एकस्मिन् प्रदेशे पञ्चानामपि धर्मास्तिकायादीनां भजना भविष्यति, पञ्चपुरुषसेवकवत् / कदाचिदधर्मास्तिकायस्य प्रदेशो भवति, एवं पञ्चानामपि भजना स्यात् प्रदेशस्य / अत एवं वद - धर्मप्रदेशः 1, अधर्मप्रदेशः 2, आकाशप्रदेशः 3, जीवप्रदेश: 4, पुद्गलादेशः 5, एतेषां पञ्चानां मध्ये एकतमस्य प्रदेश इति 5 अथ समभिरूढनयो वक्ति - धर्मप्रदेश इत्येवमुच्यमाने समासद्वयातिव्याप्तिर्भवति तत्पुरुष: कर्मधारयश्च / तत्पुरुषे क्रियमाणे धर्म प्रदेशः, अत्र धर्म-प्रदेशयो.क्यं, धर्मात् प्रदेशो भिन्नः प्रदेशाद्धर्मो भिन्न:, 'भेदे तत्पुरुष' इति वचनात् / अतोऽत्र कर्मधारयः कर्तव्यः / धर्मश्चासौं प्रदेशश्च धर्मप्रदेशः / अस्मिन् समासे धर्मद्रव्य-प्रदेशयोरक्यं, न भिन्नत्वं, 'अभेदे कर्मधारय' इति वचनात् / 6 अथैवम्भूतनयो वक्ति- हे समभिरूढनय ! त्वं धर्मास्तिकायादिषु देश-प्रदेशौ कल्पनया मन्यसे, तदुक्तं (तदयुक्तं ?) यत: देशप्रदेशौ धर्मास्तिकाया दिस्कन्धादभिन्नौ, देश-प्रदेश-स्कन्धानामैक्यमेव कल्पनया, भिन्नत्वमस्ति तर्हि कल्पनया कि प्रयोजनं? / समस्तस्कन्धरूपो धर्मास्तिकायः स एव धर्मास्तिकाय उच्यते, न तु देश-प्रदेशौ / एवं सर्वत्राऽ धर्मास्तिकायादिषु ज्ञेयम् / इत्येवम्भूतनयवचनम् 7 इति प्रदेशदृष्टान्तः // सप्तनयज्ञो जिनोक्तसिद्धान्ताधिकारी, नान्यः / / नयानां किल सप्तानामा दृष्टान्तपूर्वकाः / / लिखिताः संस्कृतरूपेण स्वात्मनः परहेतवे / / एते सप्त नया मिथ्यादृष्टिभिर्न मन्यते(न्ते) // इति सप्तनयविवरणं चूर्ण विहितम् // Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9