Book Title: Saptanaya Vivaran Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 8
________________ अनुसंधान - २१ प्रशस्तकमलादिचित्रोपलक्षितः रुचिरेणोपशोभितः प्रशस्तस्तु नूतनकपाटयुक्ते रम्योन्नतगवाक्षलक्ष्ये ईदृशे गृहेऽहं वसामि । एषो (ष) षष्ठो (?) नैगमनयः सप्तम (?) नैगमाच्छुद्धः । इति नैगमः ||१|| ८ नैगम-व्यवहारयोर्वचनं (न) साम्यं न भिन्नत्वम् ॥२॥ अथ संग्रहनय उच्यते । यदा स पुरुष आसनादौ उपविष्टो भवेत् तदैव तत्र वसतीति मन्यते संग्रहनयो, नान्यथा । चलनादिक्रियायुक्तो नरो न तत्र वसतीति मन्यते संग्रहः । इत्थं सर्वत्र विचार्य, इति संग्रह: ३ || अथ ऋजुनयः । आसेन (आसने) आकाशप्रदेशा बहु ( बहव:) सन्ति, न तत्र वसति सर्वत्र । किन्तु यावत आकाशप्रदेशान् अवरुध्योपवे (वि) ष्टो नरः स तत्रैव वसति नान्यत्र, वर्तमानसमये वसति नान्यस्मिन् समये । एवं सर्वत्र ज्ञेयम् ४॥ अथ शब्दादिनयत्रयं कथयति - 'सर्वं वस्तु स्वात्मन्येव वर्तते, न त्वात्मव्यतिरिक्तेऽधिकरणे' इति वचनात् सर्वोऽपि पुरुषार्थपदार्थे स्वस्वरूपे स्वस्वभावे वसति, न तु परस्वभावे आकाशप्रदेशे । इति त्रसतिदृष्टान्तः ॥ अथ प्रदेशदृष्टान्ते सप्तनयान् अवतारयति । क्वचिद् विद्वज्जनमण्डल्यां प्रदेशप्रवृत्तौ जायमानायां सत्यां केनापि पृष्टं 'कस्य प्रदेश: ?' । तदैकः कश्चित् पण्डितो नैगमनयमवलम्ब्य वक्तीदं- धर्मास्तिकाय १ अधर्मास्तिकाय २ आकाशास्तिकाय३ जीवास्तिकाय४ पुद्गलास्तिकाय ५ देश: ६ । सकलद्रव्यस्य कल्पनया विवक्षितः कियान् अंशो भागो देशः उच्यते । एतेषां पूर्वोक्तानां षण्णां प्रदेशः इत्य ( ति व ? ) वक्तव्यं नैगमवचने । अथ संग्रहो वक्ति अरे नैगम ! मैवं वद । षण्णां प्रदेशो न किन्तु पञ्चानाम् । धर्मास्तिकायादीनां प्रदेशोऽस्ति, न तु देशस्य प्रदेश: । द्रव्यस्य एकांशी देशः, न तु द्रव्याद् भिन्नो देश इति ॥ २ अथ व्यवहारनयो ब्रूते - अरे संग्रह ! मेत्थं ब्रूहि पञ्चानां धर्मास्तिकाया दीनां प्रदेशः । पञ्चानां तदोच्यते यदा पञ्चानां साधारणो भवति पञ्चभ्रातृनिधानवत् । इत्थं वद- पञ्चविधः प्रदेश: धमांस्तिकायादीनां पञ्चविधत्वात् इति ॥३ अथ ऋजुसूत्र वक्ति अरे व्यवहार ! मैवं भण यत् पञ्चविधः Jain Education International . For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 6 7 8 9