Book Title: Sanskar Paddhati
Author(s): Bhaskar Shastri, Sudev Shastri
Publisher: Vinayak Ganesh Apte

View full book text
Previous | Next

Page 8
________________ भुक्त्वा चान्द्रायणं चरेदित्यादौ पापसंयोगे तद्विधेरिवार विधेरदर्शनात् । तस्मारिकमनेन विधीयत इति चेदत्र ब्रूमः-अहरहः संध्यामुपासीतेति वचनविहितसंध्यावन्दनवपञ्चमहायज्ञवि. धिवाक्येन नित्यत्वं विधीयत इति नित्या एव महायज्ञा न तु चित्रावरकाम्या भवितुमर्हन्तीति सिद्धान्तः । इतरथा ह्य करणे प्रत्यवायप्रदर्शकानि 'पञ्च यज्ञांस्तु यो मोहान्न करोति गृहाश्रमी । तस्य नायं न च परो लोको भवति धर्मतः ।। इत्यादीनि गर्गायुक्तवाक्यानि व्याकुप्ये रन् । न च तथा सति नित्यं निष्फलमिति न्यायेन पथमहायज्ञानां नित्यत्वे नेप्फल्यापत्तिरित वक्तुं शक्यम् । तथा च फलरहितेषु तेषु न कस्यापि निसर्गत एव फलासक्तचित्तस्य प्रवृत्तिरिति शङ्कनीयम् । मीमांसकैकदेशिभिः कैश्चित्कदाचित्तथाऽगीकारेऽपि नित्यकर्माण प्रत्यवायनिवृत्तिलक्षणस्य फलस्याखिलदर्शनकारैः स्वीकृतत्वात् । न च निराधारेयं स्वीकृतिः । ' अविद्यया मृत्युं तीत्वा विद्ययाऽमृतमश्नुते । इति श्रुतेः । अविद्यया कर्मणा मत्युतरणोपायविद्याप्रतिव. न्धकीभूतदुरितनिवृत्तौ ज्ञानोदयेन मोक्षं भजत इति तदयात् । ‘योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वाऽऽत्मशुद्धये । इति स्मृतेश्च । सङ्गं फलाभिसंधि परित्यज्य मुक्ति हेतु ज्ञानप्रतिबन्धकमलापकर्षणेन चित्तसंशद्धये योगिनः कर्माऽऽचरन्तीति तदर्थाच्च । अत एव भगवच्छीशंकरपादैः-'सर्वापेक्षा च' 'विहितस्वाच्चाऽऽश्रमकापि' इत्यादिवादरायणसूत्रेषु शारीरकभाष्ये विविदिपन्तीत्यादिश्रुत्याऽनयैव रीत्या विद्यायाः स्वोत्पत्तौ कर्मापे. क्षाऽवधारिता संगच्छते । नन्वेवं सति पञ्चमहायज्ञानां फलवत्त्वेन काम्यत्वात्कथं नित्यत्वमिति चेन्न । यतो न नित्यत्वकाम्यत्वयोः परस्परं विरोधः। नन्वेतयोरविरोधे नित्यं काम्यं चेति विभागो नोपपद्यते । विभागप्रयोजकोपाधीनां परस्परविरोधसहकृतत्वनियमा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 262