________________
भुक्त्वा चान्द्रायणं चरेदित्यादौ पापसंयोगे तद्विधेरिवार विधेरदर्शनात् । तस्मारिकमनेन विधीयत इति चेदत्र ब्रूमः-अहरहः संध्यामुपासीतेति वचनविहितसंध्यावन्दनवपञ्चमहायज्ञवि. धिवाक्येन नित्यत्वं विधीयत इति नित्या एव महायज्ञा न तु चित्रावरकाम्या भवितुमर्हन्तीति सिद्धान्तः । इतरथा ह्य करणे प्रत्यवायप्रदर्शकानि
'पञ्च यज्ञांस्तु यो मोहान्न करोति गृहाश्रमी ।
तस्य नायं न च परो लोको भवति धर्मतः ।। इत्यादीनि गर्गायुक्तवाक्यानि व्याकुप्ये रन् । न च तथा सति नित्यं निष्फलमिति न्यायेन पथमहायज्ञानां नित्यत्वे नेप्फल्यापत्तिरित वक्तुं शक्यम् । तथा च फलरहितेषु तेषु न कस्यापि निसर्गत एव फलासक्तचित्तस्य प्रवृत्तिरिति शङ्कनीयम् । मीमांसकैकदेशिभिः कैश्चित्कदाचित्तथाऽगीकारेऽपि नित्यकर्माण प्रत्यवायनिवृत्तिलक्षणस्य फलस्याखिलदर्शनकारैः स्वीकृतत्वात् । न च निराधारेयं स्वीकृतिः ।
' अविद्यया मृत्युं तीत्वा विद्ययाऽमृतमश्नुते । इति श्रुतेः । अविद्यया कर्मणा मत्युतरणोपायविद्याप्रतिव. न्धकीभूतदुरितनिवृत्तौ ज्ञानोदयेन मोक्षं भजत इति तदयात् ।
‘योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वाऽऽत्मशुद्धये । इति स्मृतेश्च । सङ्गं फलाभिसंधि परित्यज्य मुक्ति हेतु ज्ञानप्रतिबन्धकमलापकर्षणेन चित्तसंशद्धये योगिनः कर्माऽऽचरन्तीति तदर्थाच्च । अत एव भगवच्छीशंकरपादैः-'सर्वापेक्षा च' 'विहितस्वाच्चाऽऽश्रमकापि' इत्यादिवादरायणसूत्रेषु शारीरकभाष्ये विविदिपन्तीत्यादिश्रुत्याऽनयैव रीत्या विद्यायाः स्वोत्पत्तौ कर्मापे. क्षाऽवधारिता संगच्छते । नन्वेवं सति पञ्चमहायज्ञानां फलवत्त्वेन काम्यत्वात्कथं नित्यत्वमिति चेन्न । यतो न नित्यत्वकाम्यत्वयोः परस्परं विरोधः। नन्वेतयोरविरोधे नित्यं काम्यं चेति विभागो नोपपद्यते । विभागप्रयोजकोपाधीनां परस्परविरोधसहकृतत्वनियमा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com