________________
वश्यंभावादिति वाच्यम् । न ह्ययं कर्मणामुपधेयानां विभागोऽपितु तत्प्रयोजकोपाधिभूतानां नित्यत्वकाम्यत्यादीनामेवेति नोक्तानु. पपत्तिः । ननु तथाऽपि विरुद्धधर्मद्वयापातादयुक्तमेतद्यदेकस्यैव कर्मणो नित्यत्वं काम्यत्वं चेति । तथाहि-ततः पञ्च महायज्ञाकुर्यादहरहगेंहीति पूर्वोक्तविधायकवाक्येऽहरहरिति वीप्साश्रुतेः पश्चमहायज्ञानामवश्यानुष्ठानकत्वरूपो नित्यः संयोगः प्रतीयते । अविद्यया मृत्यु तीवी, ज्ञानमुत्पद्यते पुंसामित्यादिवचनाच प्रत्यवायनिवृत्तिरूपफलाभिधानात्तादृशफलानिच्छू नामप्युपलम्भात्फलेच्छाया अवश्यंभावनियमाभावात्तेषामनियतानष्ठानकत्वरूपोऽ. प्यनित्यः संयोगः प्रतीयते । न चैकस्यैव नित्यानित्यसंयोगः संघटते । नियतानुष्ठानकत्वानियतानुष्ठानकत्वयोः परस्परविरोधसहकृतत्वेनैकत्र वर्तनासंभवात् । न हि वास्तवो विरोधो वचनशतेनाप्यपाकर्तुं शक्य इति चेन्न । सिद्धस्य वस्तुनो विरुद्धधर्मद्वययोगेन विकल्पोऽसंभवी । साध्यस्य तु भवत्येव विकल्पः। षोडशिन एकस्य ग्रहणाग्रहणयोरिव । ते हि ग्रहणाग्रहणे साध्यस्वाद्विकल्येते एव । एवं च नायं कर्मणो विकल्पः किंतु साध्यस्य कर्मधर्मसंयोगस्यति बोध्यम् । तथा चैकस्यैव कर्मणो भिन्नसंयो. गप्रतिपादकतुल्यबलवचनद्वयमामाण्यात्खादिरवरूप्यमविरुद्धम्। यथा-खादिरो यूपो भवतीति क्रतो नित्यः खादिरो विहितः । खादिरं वीर्यकामस्य यूपं कुर्वीतेति च तस्मिन्नेव क्रतो काम्यत्वेनानित्यः खादिरो विहितः । तत्र यथा संयोगभेदादेकस्यैव खादिरस्य क्रत्वर्थत्वं पुरुषार्थत्वं चेति द्वैरूप्यमङ्गीकृतं तद्वदत्रापि द्विविधप्रमाणसद्भावादकस्योभयरूपत्वं किं न स्यादिति विचारयेथाः । तदुक्तं जैमिनीयन्यायमालाविस्तरे चतुर्थाध्याये तृतीयपादे-एकस्य तूभयत्वे संयोगपृथक्त्वमिति । एकस्यैव कर्मणो नित्यनैमित्तिकोभयरूपत्वे नित्यकाम्योभयरूपत्वे नैमित्तिककाम्योभयरूपत्वे वा संयोगबोधकवाक्यस्य पृथक्त्वं भेदः स हेतुरिति तदर्थः । तत्सिद्धं पञ्चमहायज्ञानां नित्यकाम्योभयरूपत्वमिति । नित्यकाम्ययोर्विरोधाभावादेव च जयन्त्यादिवतानां नित्यकाम्योभयरूपत्वं धर्मशास्त्रनिवन्धकारैरुक्तं संगच्छते । नन्वेवं दुरितक्षयफलकत्वयात्रेण काम्यत्वस्वीकारे
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com