________________
'केवलेनोपचासेन तस्मिञ्जन्मदिने मम ।
शतजन्मकृतात्पापान्मुच्यते नात्र संशयः' ॥ इति वचनेन पापमुक्तिरूपफलश्रवणाजन्माष्टमीव्रतस्यापि काम्यत्वमापयेत । न चेष्टापत्तिः । जन्माष्टमीव्रतस्य केवलं नित्यत्वस्यैव माधवाचार्यैः सिद्धान्तितत्वात् । किं च ममोपात्त. दुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थ संध्यामुपासिष्ये, इत्यनुष्ठानप्रारम्भकाले फलसंकीर्तनपुरःसरं संकल्पश्रवणात्संध्यावन्दनकर्मणोऽपि काम्यत्वं प्रसज्येनेति चेन्मैवम् । यत्र पापक्षयातिरिक्तफलान्तरस्मरणं तत्रैव काम्यत्वं न त्वंहोवस्तिफलकत्वमात्रेणेति सर्वशिष्टसंमतत्वात् । तादृशसंकल्पस्य संध्यावन्द नादौ परमेश्वरापणलाभाय यागादिकाम्यकर्मफलस्वर्गादिविलक्षणोपात्तदुरितक्षयरूपनित्यकर्मस्वरूपप्रदर्शनाय च महाजनैः परिगृहीतत्वाच्च । न चैवं पञ्चमहायज्ञानामपि तथात्वापत्त्या काम्यत्वसाधनप्रयासः स्थेयान्वि फल इति वाच्यम् ।
'यज्ञेन लोकान्सकलान्प्रयान्ति
यज्ञेन देषा अमृतत्वमानशुः । गझे न पापर्बहुभिर्विमुक्तः
प्राप्नोति लोकान्परमस्य विष्णोः' । 'यत्फलं सोमयागेन प्राप्नोति धनवान्द्विजः ।
सम्यक्पञ्चमहायज्ञे दरिद्रस्तदवाप्नुयात् ।। इति शंभुहारीतयचोभ्यां पापक्षयातिरिक्तफलान्तरस्मरणेनादोपात् । नन्वेवं फलश्रवणात्फलार्थिनां तदनुष्ठानमर्थायातम् । अफलार्थिनां तु प्रयोजनाभावात्कि तदनुष्ठानेनेति तेषां तदभाव आप. तीति नित्यानित्यभेदेन प्रयोगद्वयमात्सिद्धं भवति । न चैकस्य कर्मणः कालभेदेन वा कर्तभेदेन वा विना प्रयोगद्वयं संभवति । न चात्र कालभेदः संभवति । नित्यकाम्यरूपयोईयोरपि प्रयोगयोः सायं प्रातःकालिकत्वस्यैव प्रतीयमानत्वात् । नापि कर्तृभेदः । यद्यपि काभ्यं परित्यज्य नित्यः प्रयोगोऽनुष्ठातुं शक्यते तथाऽपि काम्यमनुतिष्ठासुना नित्यप्रयोगस्य परिहर्तुमशक्यस्नात् । ततश्च कालैकत्वात्कर्बकत्वाच्च प्रयोगद्वयमसंभवीति
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com