SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ (८) चेन्नायं दोषः । यथा श्राद्धार्थ निमन्त्रितेन ब्राह्मणन क्रियमा. णस्य भोजनस्य फलद्वयमन्थकर्तृकश्राद्धपरिनिष्पत्तिः स्वीयतप्तिश्च । न च तेन वारद्वयं भुज्यते । तथा फलार्थ समनुष्ठितैः पञ्चमहायज्ञैः प्रयोजनद्वयं निष्पद्यत इति सकृदनुष्ठानेनैवोभयप्रयोगानुष्ठानं सिध्यतीति सर्वमनवद्यम् । तच्चानुष्ठानमर्थावबोध. पुरःसरमाचरणीयं तथा सति महत्फलं भवति नान्यथा । अत एव च्छान्दोग्ये श्रूयते-यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीयवत्तरं भवतीति । विद्या सम्यगर्थावबोधः । तत्पुरःसरं यद्यथावदनुष्ठीयमानं कर्म समग्रफलदं भवतीत्यर्थः । अत्र तदेवेतिविशेष्यसंगतैवकारेणार्थानवबोधपुरःसरमनुष्ठीयमानस्य न समग्रफलदत्वमिति सूचितं भवति । अत एव 'ज्ञात्वा ज्ञात्वा च कर्माणि जनो यो योऽनुतिष्ठति । विदुषः कर्मसिद्धिः स्यात्तथा नाविदुषो भवेत् ' । इत्युक्तं संगच्छते । तथा चार्थावबोधप्रदानेनापि याज्ञिकजनानुपकुर्यादिति सर्वथा समादरणीयेयं पद्धतिरित्याशास इति शम् । पुण्यपत्तने आश्विन शुक्लपञ्चम्यां शुक्रवासरे शके १८४६ ? महामहोपाध्यायाभ्यंकरोपात. वासुदेवशास्त्री - Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034602
Book TitleSanskar Paddhati
Original Sutra AuthorN/A
AuthorBhaskar Shastri, Sudev Shastri
PublisherVinayak Ganesh Apte
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy