Book Title: Sanskar Paddhati Author(s): Bhaskar Shastri, Sudev Shastri Publisher: Vinayak Ganesh Apte View full book textPage 7
________________ तस्य नित्यत्वं महायज्ञविषये तु न तथा प्रायश्चित्तस्मरणमुपलभ्यत इति वाच्यम् । अकृत्वाऽन्यतमं यज्ञं यज्ञानामधिकारतः। उपवासेन शुध्येत पाकसंस्थासु चैव हि ॥ इति महायज्ञाकरणे प्रायश्चित्तस्मरणात् । ननु ततः पञ्च महायज्ञानित्यादिमहायज्ञकर्नव्यताप्रतिपादकं यन्मूलभूतं वचनं प्रदर्शितं तन्नोपपद्यते । यत्कारणं तेन विधीयमानस्यैव दुरधिगमत्वात् । न तावन्नित्यत्वं विधातुं शक्यम् । कामनाप्रवणस्वा. न्तानां विग्रहवतां फललवशून्ये बहुलद्रव्यव्ययशरीरायाससाध्ये नित्ये कर्मणि कथमपि प्रवृत्त्यनापत्तेः । नापि नैमित्तिकत्वम् । राहूपराने स्नायादित्यत्रोपरागवनिमित्ताश्रवणात् । न च मलिनं ते वपुः स्नायादित्यादौ सिद्धसाध्यसमभिन्याहारास्नाने मलिनवपुष्टस्य निमित्तत्ववदहरहरिति कालस्यैव निमित्तत्वम् । परिगृहीतं चाऽऽग्रयणे शरत्कालस्य निमित्तत्वमिनि वाच्यम्। तथा सति वसन्तस्य निमित्तत्वे ज्योतिष्टोमस्यापि नैमित्तिकत्वमापद्येत । न चापि काम्यम् । तद्विधिप्रतिपादके वाक्ये फलसंबन्धादर्शनात् । ननु अश्रुतफलसंवन्धेषु पञ्चमहायज्ञेषु विश्वजिता यजेतेत्यादौ विश्वजितीच निरतिशयसुखास्पदत्वेन सर्वाभिलषणीयत्वात्स्वभावसुन्दरः स्वर्ग एवं फलत्वेन 'कल्पनीय इति सांप्रतम् । तदुक्तं जैमिनिना न्यायमालायां चतुर्थाध्यायस्य तृतीयपादे सप्तमे स्वर्गफलताधिकरणे-स स्वर्गः स्यात्सर्वान्प्रत्यविशिष्टत्वादिति । नैतन्मनोरमम् । पशुफलकामनाकामनाप्रयुक्तचित्रायागानुष्ठानाननुष्ठानबत्स्वर्गफलकामनायां सत्यां पञ्चमहायज्ञानुष्ठानं तदकामनायां तु तदननुष्ठानापत्ते ण्डनिवारितत्वाभावात् । न चेष्टापतिः । सर्वजनपदेष्वेकान्तसमाहितमित्यादिधर्ममूत्रोपवर्णितचरितानामात्मवतां महाशयविशिष्टानां शिष्टानां तथाविधफलानपेक्षिणामपि यथाकालं निरन्तरं पश्चमहायज्ञानुष्ठानदर्शनात् । तस्मान्महायज्ञानां काम्यत्वमङ्गीकृत्य पाक्षिकानुष्ठानं स्वीकर्तुं सर्वथाऽनुचितम् । ततश्च प्रकृते न स्वर्गः फलत्वेन कल्पनीयः । नापि वा प्रायश्चित्तरूपम् । एकादश्यामहोरात्रं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.comPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 262