Book Title: Sanskar Paddhati
Author(s): Bhaskar Shastri, Sudev Shastri
Publisher: Vinayak Ganesh Apte

View full book text
Previous | Next

Page 4
________________ विज्ञप्तिः । प्रसिद्धमेवैतद्यत्समुद्रवलयाङ्कितेऽस्मिन्भूवलय आसेतु आदि. माचलं तत्तत्प्रदेशाद्यायामविस्तारविस्तृते परमपुरुषसंकल्पसृष्टाः स्वस्वप्रारब्धोपनसोच्चावचभावा हिरण्यगर्भप्रभृतिपिपीलिकापयन्ताः सर्वे प्राणिनः स्वभावत एव चतुर्विधपुरुषार्थान्तर्गतमोक्षापरपर्यायं सुखमभीप्सवो दुःखं परिजिहीर्षवश्च भवन्तीति । सुखं च यद्यपि स्रक्चन्द नवनिताप्रभृतिभिलौकिकैः साधनैः कैश्चित्कदाचिल्लब्धुं शक्यते तथाऽपि न तन्मोक्षशब्दभाक् । तस्य सातिशयत्वात्सदृक्षत्वाच्च । निरतिशयमेव च तद्वाञ्छन्तीत्येतद्विषये न कस्यापि विसंवादः । मोक्षश्च यावदुःखात्यन्ताभाव रूपो नतु लोकान्तरावाप्तिजन्य वैषयिकसुखानुभवरूपः । अनुभवस्य शरीराधीनत्वेन शरीरस्य च विशरणस्वभावत्वेन भावितन्नाशजन्यदुःखसंसर्गस्य हिरण्यगर्भादावप्यवर्जनीयत्वेन लेशतोऽपि दुःखेनासंभिन्नसुखस्य काप्यसंभवेन मोक्षस्य लौकिकसुखसमानाकारत्वापत्तेः । न च धर्मसाध्यनित्यनिरतिशय सुखाभिव्यक्तिरिति भट्टसर्वज्ञाद्यभिमतो मोक्षोऽस्त्विति वाच्यम् । ताशनित्यमुखस्य प्रमाणसिद्धत्वाभावात् । न च श्रुतिरेव प्रमाणम् । योग्यानुपलब्धिबाधिते तदप्रसरात्पसरे च ग्रावाणः प्लवन्ते, इतिश्रुतिप्रतिपादितग्रावप्लवनेऽपि तथा कल्पनापत्तेः । तस्मात्कण्टकापसारणे सुखी संवृत्तोऽहमिति लौकिकप्रत्ययवदुःखनिवृत्तिरेव तत्र सुखशब्देनगोपचर ते । न पुनरस्ति सुखं नाम किंचिद्वस्त्वन्तरम् । मोक्षोपा श्चि म इति भगवनिःश्वसितरूपो भगवानाम्नाय एव प्रतिपादयाते । धर्मश्च वेदविधिबाधितं कमैव । तदुक्तं जैमिनिमुनि भेः-चोदनालक्षणोऽर्थो धर्म इति । चोदना वैदिको लिडादित्राच्यविधिलक्षणं प्रमाणं यस्य ताह. शोऽर्थो यागादिर्धर्म इति तदर्थः । अन एवेशावास्योपनिषदि ' कुर्वन्नेवेह कर्माणि जिजीविषेच्छत५ समाः । एवं त्वयि नान्यथेलोऽस्ति न कर्म लिप्यने नरे ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 262