Book Title: Sankhya darshanam
Author(s): Shreekapil Maharshi
Publisher: Jivanand Vidyasagar Bhattacharya

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org रांशे बलवत्वम् । तथा । Acharya Shri Kailassagarsuri Gyanmandir सांख्यदर्शनम् । मासनादिपरतया तत् शास्त्रं सङ्कोच्येत । यत् तु । नास्ति सांख्यसमं ज्ञानं नास्ति योगसमं बलम् । अत्र वः संशयो मा भूज्ज्ञानं सांख्य परं मतम् ॥ इत्यादि वाक्यम् । तद्विवेकांश एव सांख्यज्ञानस्य दर्शनान्तरेभ्य उत्कर्ष प्रतिपादयति न त्वोश्वरप्रतिषेवांशेऽपि । तथा पराशराद्यखिल शिष्टसंवादादपि सेश्वरवादस्यैव पारमार्थि कत्वमवधार्य्यते । अपि च । I अक्षपादप्रणीते च काणादे सांख्ययोगयोः । त्याज्यः श्रुतिविरुद्धोऽ'शः श्रुत्य कशरणैर्नृभिः ॥ जैमिनीये च वैयासे विरुद्धांशो न कश्चन । या वेदार्थविज्ञाने श्रुतिपारं गतौ हि तौ ॥ इति पराशरोपपुराणादिभ्योऽपि ब्रह्ममीमांसाया ईश्क न्यायतन्त्राण्यनेकानि तैस्तैरुक्तानि वादिभिः । हेत्वागमसदाचारैर्यद्युक्तं तदुपास्यताम् ॥ इति मोक्षधर्मवाक्यादपि पराशराद्यखिल शिष्टव्यवहारेण ब्रह्ममीमांसान्यायवैशेषिकायुक्त ईश्वरसाधकन्याय एक ग्राह्मो बलवत्त्वात् । तथा । यं न पश्यन्ति योगोन्द्राः सांख्या अपि महेश्वरम् । श्रनादिनिधनं ब्रह्म तमेव शरणं व्रज इत्यादिकर्मादिवाको सांख्यानामौखराज्ञानस्यैव नारायणादिना प्रोक्तत्वाच्च । किञ्च ब्रह्ममीमांसाया ईश्वर एव मुख्यो विषय उपक्रमादिभिरवधृतः । तत्रांशे तस्य बाधे शास्त्रस्यैवाप्रामाण्यं स्याद् यत्परः शब्दः स शब्दार्थ इति न्यायात् । सांख्यशास्त्रस्य तु पुरुषार्थतत्साधन प्रकृतिपुरुष विवेकावेव मुख्यो विषय दूतौखरप्रतिषेधांशबाधेऽपि नाप्रामाख्यं यत्परः शब्दः For Private And Personal Use Only

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 254