Book Title: Sankhya darshanam
Author(s): Shreekapil Maharshi
Publisher: Jivanand Vidyasagar Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भूमिका ।
प्रकृतेः क्रियमाणानि गणेः कर्माणि सर्वशः । अहङ्कारविमूढात्मा कर्त्ताहमिति मन्यते ॥ निर्वाणमय एवायमात्मा ज्ञानमयोऽमलः । दुःखाज्ञानमया धर्माः प्रकृतेस्ते तु नात्मनः ॥ इत्यादितात्त्विक स्मृतिशतैश्च ।
।
न्यायवैशेषिकोक्त ज्ञानस्य परमार्थभूमौ बाधितत्वाञ्च । न चैतावता न्यायाद्यप्रामाण्यम् । विवचितार्थे देहाद्यतिरेकांशे बावाभावाद यत्परः शब्दः स शब्दार्थ इति न्यायात् । श्रात्मनि सुखादिमत्त्वस्य लोकसिद्धतया तत्र प्रमाणान्तरानपेक्षणेन तदंशस्यानुवादत्वान्न शास्त्रतात्पय्यविषयत्वमिति । स्यादेतत् । न्यायवैशेषिकाभ्यामत्राविरोधो भवतु । ब्रह्ममीमांसायोगाभ्यां तु विरोधोऽस्त्येव । ताभ्यां नित्येश्वर साधनात् । अत्र चेश्वरस्य प्रतिषिध्यमानत्वात् । न चात्रापि व्यावहारिकपारमार्थिकभेदेन सेश्वर - निरीश्वरवादयोरविरोधोऽस्तु सेखरवादस्योपासनापरत्वसम्भवादिति वाच्यम् । विनिगमकाभावात् । ईश्वरो हि दुर्ज्ञेय इति निरीश्वरत्वमपि लोकव्यवहारसिद्ध मैश्वर्य्यवैराग्यायानुवदितु शक्यत श्रात्मनः सगुणत्वमिव न तु क्वापि श्रुत्यादावीश्वरः स्फुटं प्रतिषिध्यते येन सेश्वरवादस्यैव व्यावहारिकत्वमवधार्य्येतेति । श्रत्रोच्यते । अत्रापि व्यावहारिकपारमार्थिक भावो भवति । श्रसत्यमप्रतिष्ठं ते जगदाहुर नौश्वरम् ।
इत्यादिशास्त्रे निरीश्वरवादस्य निन्दितत्वात् । अस्मिन्नेव शास्त्रे व्यावहारिकस्यैवेश्वरप्रतिषेधस्यैश्वय्य वैराग्याद्यर्थमनुवादत्वौचित्यात् । यदि हि लोकायतिकमतानुसारेण नित्यैश्वय्र्यं न प्रतिषिध्येत तदा परिपूर्णनित्य निर्दोषैश्वय्र्यदर्शनेन तत्र चित्तावेशतो विवेकाभ्यासप्रतिबन्धः स्यादिति सांख्याचाय्र्यायामाशयः । नेश्वरवादस्य न क्वापि निन्दादिकमस्ति । येनो
For Private And Personal Use Only

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 254