Book Title: Samyktvasaptati
Author(s): Sanghtilakacharya,
Publisher: Naginbhai Ghelabhai Zaveri Mumbai
View full book text
________________
तदनुजो मनुजोत्तमवंदितः, समभवद्विमलेंदुमुनीश्वरः । यदुपदेशगिरः परिपीयकैरमृतपानविधौ न घणायितम् ।। ततोऽजनि श्रीगुणेशखराख्यः, सूरिः सुशर्माभिधपत्तने यः । शृंगारचंद्रक्षितिभूत्सभायां यत्रावलंबैः कुदृशो जिगाय ॥ तत्पट्टाम्बुजराजहंससदृशः सिद्धान्तपारंगतः, श्रीमान्नंदति सैष संघतिलकः सूरीश्वरः संप्रति ।
यो वादे विविधान् बुधानतिबुधान् बुद्धिप्रबंधैरलं, जित्वा कीर्तिमरैः पिपर्ति भुवनं कर्पूरपूरप्रभैः ॥ श्रीवीरशासनमहोदधितः प्रसूतः प्रोयत्कलाभिरभितः प्रथितः पृथिव्यां । माद्यन्महाप्रसरनाशिततामसोऽस्ति, श्रीचंद्रगच्छ इति चंद्र इवाद्भुत श्रीः ।। १ ।। तत्रासीद्धरणेन्द्रवन्धचरणः श्रीवर्द्धमानो गुरुस्तत्पट्टे च जिनेश्वरः सुविहितश्रेणीशिरःशेखरः । तच्छिष्योऽभयदेवरिरभवद्रङ्गन्नवाङ्गीमहावृत्तिस्तम्भनपार्श्वनाथजिनराइमूर्तिप्रकाशैककृत् ॥ २॥ तत्पट्टपूर्वांचलचूलिकायां, भाखानिव श्रीजिनवल्लभाख्यः । सच्चक्रसम्बोधनसावधानबुद्धिः प्रसिद्धो गुरुमुख्य आसीत् ॥ ३॥ तच्छिष्यो जिनशेखरो गणधरो जज्ञेऽतिविज्ञाग्रणीस्तत्पादाम्बुजराजहंससदशः श्रीपद्मचन्द्रप्रभुः । तत्पट्टाम्बुधिवर्द्धनः कुवलयप्रोद्यत्प्रबोधैकधीः, श्रीमान् श्रीविजयेन्दुरिन्दुवदभूच्छश्वत्कलालातः ॥ ४॥ पट्टे तदीयेऽभयदेवसूरिरासीद् द्वितीयोऽपि गुणाद्वितीयः । जातो यतोऽयं जयतीह रुद्रपल्लीयगच्छः सुतरामतुच्छः ॥ ५॥ तत्पादाम्मो-|| जभृङ्गोऽजनि जिनसमयाम्भोधिपायोधिजन्मा, सूरीन्द्रो देवमद्रोऽनुपमशमरमाराममेवोपमानः । तस्यान्तेवासिमुख्यः कुमतमतितमश्चण्ड-3 मार्तण्डकल्पः, कल्पद्रुः कल्पितार्थप्रवितरणविधौ श्रीप्रभानन्दसूरिः ॥ ६॥ ज्योतिःस्तोभैरमानैः प्रतिहतजगतीवर्तितेजखितेजःस्फूर्ती । तत्पपूर्वाचलक्मिललसन्मौलिमौलीयमानौ । श्रीमान् श्रीचन्द्रसूरिविमलशशिगुरुश्चाप्रमेयप्रभावौ, जातौ श्रीराजहंसाविव भविकजनव्यूहयो

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 490