Book Title: Samvayangasutram
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
ह-न भयं दयते-प्राणापहरणरसिकोपसर्गकारिण्यपि प्राणिनि ददातीत्यभयदयः अभया वा-सर्वप्राणिमयपरिहारवती दया-घृणा यस्यासावभयदयो, हरिहरादिस्तु नैवमिति, तेनाभयदयेन, न केवलमसावपकारकारिणामप्यनर्थपरिहारमात्रं करोति अपित्वर्थप्राप्तिं करोतीति दर्शयन्नाह-चक्षुरिव चक्षुः-श्रुतज्ञानं शुभाशुभार्थविभागकारित्वात्तद्दयते । इति चक्षुर्दयस्तेन, यथा हि लोके चक्षुर्दत्त्वा वाञ्छितस्थानमार्ग दर्शयन् महोपकारी भवतीत्येवमिहापीति दर्शयन्नाह-15
सम्यग्दर्शनज्ञानचारित्रात्मकं परमपदपथं दयत इति मार्गदयस्तेन, यथा हि लोके चक्षरुद्घाटनं मार्गदर्शनं च कृत्वा चौरादिविलुप्सान् निरुपद्रवं स्थान प्रापयन् परमोपकारी भवति एवमिहापीति दर्शयन्नाह-शरणं-त्राणमज्ञानोपद्रवोपहतानां तद्रक्षास्थानं तच्च परमार्थतो निर्वाणं तयत इति शरणदयस्तेन, यथा हि लोके चक्षुर्मार्गशरणदानात् दुःस्थानां जीवितव्यं ददाति एवमिहापीति दर्शयन्नाह-जीवनं जीवो-भावप्राणधारणममरणधर्मत्वमित्यर्थस्तं दयत इति जीवदयो जीवेषु वा दया यस्य स जीवदयोऽतस्तेन, इदं चानन्तरोक्तं विशेषणकदम्बकं भगवतो धर्ममयमूर्तिवात्सम्पन्नमिति धर्मात्मकतामस्यान्यविशेषणपञ्चकनाह-धर्म-श्रुतचारित्रात्मकं दुर्गतिप्रपतजन्तुधारणखभावं दयते-12 ददातीति धर्मदयस्तेन, तहानं चास्य तद्देशनादेवेत्यत आह-धर्मम्-उक्तलक्षणं देशयति-कथयतीति धर्मदेशकस्तेन, धर्मदेशकत्वं चास्य धर्मखामित्वे सति न पुनर्यथा नटस्येति दर्शयन्नाह-धर्मस्य-क्षायिकज्ञानदर्शनचारित्रात्मकस्य नायकः-खामी यथावत्पालनाद्धर्मनायकस्तेन, तथा धर्मस्य सारथिर्धर्मसारथिः, यथा रथस्य सारथी रथं रथिकमश्वांश्च
GAMCALCALCCALCASEARCOACAN
Jain Education MXH
For Personal & Private Use Only
allanelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 326