SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ ह-न भयं दयते-प्राणापहरणरसिकोपसर्गकारिण्यपि प्राणिनि ददातीत्यभयदयः अभया वा-सर्वप्राणिमयपरिहारवती दया-घृणा यस्यासावभयदयो, हरिहरादिस्तु नैवमिति, तेनाभयदयेन, न केवलमसावपकारकारिणामप्यनर्थपरिहारमात्रं करोति अपित्वर्थप्राप्तिं करोतीति दर्शयन्नाह-चक्षुरिव चक्षुः-श्रुतज्ञानं शुभाशुभार्थविभागकारित्वात्तद्दयते । इति चक्षुर्दयस्तेन, यथा हि लोके चक्षुर्दत्त्वा वाञ्छितस्थानमार्ग दर्शयन् महोपकारी भवतीत्येवमिहापीति दर्शयन्नाह-15 सम्यग्दर्शनज्ञानचारित्रात्मकं परमपदपथं दयत इति मार्गदयस्तेन, यथा हि लोके चक्षरुद्घाटनं मार्गदर्शनं च कृत्वा चौरादिविलुप्सान् निरुपद्रवं स्थान प्रापयन् परमोपकारी भवति एवमिहापीति दर्शयन्नाह-शरणं-त्राणमज्ञानोपद्रवोपहतानां तद्रक्षास्थानं तच्च परमार्थतो निर्वाणं तयत इति शरणदयस्तेन, यथा हि लोके चक्षुर्मार्गशरणदानात् दुःस्थानां जीवितव्यं ददाति एवमिहापीति दर्शयन्नाह-जीवनं जीवो-भावप्राणधारणममरणधर्मत्वमित्यर्थस्तं दयत इति जीवदयो जीवेषु वा दया यस्य स जीवदयोऽतस्तेन, इदं चानन्तरोक्तं विशेषणकदम्बकं भगवतो धर्ममयमूर्तिवात्सम्पन्नमिति धर्मात्मकतामस्यान्यविशेषणपञ्चकनाह-धर्म-श्रुतचारित्रात्मकं दुर्गतिप्रपतजन्तुधारणखभावं दयते-12 ददातीति धर्मदयस्तेन, तहानं चास्य तद्देशनादेवेत्यत आह-धर्मम्-उक्तलक्षणं देशयति-कथयतीति धर्मदेशकस्तेन, धर्मदेशकत्वं चास्य धर्मखामित्वे सति न पुनर्यथा नटस्येति दर्शयन्नाह-धर्मस्य-क्षायिकज्ञानदर्शनचारित्रात्मकस्य नायकः-खामी यथावत्पालनाद्धर्मनायकस्तेन, तथा धर्मस्य सारथिर्धर्मसारथिः, यथा रथस्य सारथी रथं रथिकमश्वांश्च GAMCALCALCCALCASEARCOACAN Jain Education MXH For Personal & Private Use Only allanelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy