Book Title: Samvayang Sutram
Author(s): Jambuvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 4
________________ से किं तं समवाए ? श्रीसुधर्मस्वामिगणधरनिरूपितमभयदेवसूरिविवृत्तमिदं तुर्यागं नैकगभीरभावावभासनभासुरभास्करायमानं भविष्यति भविकात्मनां भव्यणिबन्धनमिति सहर्षं पुनः प्रकाश्यते। चतुस्त्रिंशदतिशयज्ञापकं पारमर्षमिदमिति त्वद्यतनबालानामपि श्रीपद्मविजयकृतश्रीयुगादिदेवस्तोत्रतः प्रसिद्धम् । पुण्यावसरेऽस्मिन् पूर्वप्रकाशकाः श्रीसिद्धिभुवनमनोहरजैनट्रस्ट -श्रीजैन आत्मानन्दसभासभ्या एवं सम्पादकाः संशोधकाश्च बहुश्रुतमुनिवरा: श्रीजम्बूविजया अप्यनल्पधन्यवादार्हाः । सार्धत्रिशतप्राचीन श्रुतसमुद्धारप्रेरकाणां वैराग्यदेशनादक्षाणामाचार्यदेवश्रीमद्विजयहेमचन्द्रसूरीश्वराणां पुण्यप्रेरणया समतासागरपंन्यासप्रवरश्रीपद्मविजयगणिवराणां शुभस्मृतौ श्रीजिनशासन आराधना - ट्रस्टग्रथितायां श्रीप्राचीनश्रुतसमुद्धारपद्ममालायां षड्विंशतितमं पद्ममिदं सानन्दं समर्पयामः श्रीश्रमणसङ्घायेति शम् । एतद्ग्रन्थस्वामित्वं श्रीजैन श्वेताम्बरमूर्तिपूजकतपागच्छसङ्घस्यैव । एतद्ग्रन्थपठनपाठनाधिकारी कृतयोगोद्वहनगुर्वाज्ञाप्राप्तमुनिरेव ।

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 362