Book Title: Samvayang Sutram
Author(s): Jambuvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 12
________________ आमुखम् श्रीमहावीरजैनविद्यालयेन विक्रमसं. २०४९ तमे [ई. स. १९८५ ] वर्षे प्रकाशितं स्थानाङ्गसूत्रं समवायाङ्गसूत्रं च अवश्यमेव उपयोज्यम् । एतदनुसारेणैव मूलरूपं समवायाङ्गसूत्रमस्मिन् सटीके समवायाङ्गसूत्रे मुद्रितम्, तथापि क्वचित् क्वचित् यथायोग्यं परिवर्तनमपि अत्र विहितमिति सुधीभिरवश्यं ध्येयम् । सटीकस्य स्थानाङ्गसूत्रस्य प्रथम-1 म-द्वितीय-तृतीयविभागेषु प्रस्तावनायाम् आमुखादी परिशिष्टेषु च यल्लिखितमस्माभिः तदपि विशेषजिज्ञासुभिर्निरीक्षणीयम् । वृत्तिसहितस्य समवायाङ्गसूत्रस्य संशोधने येषां हस्तलिखितानामादर्शानामुपयोगोऽस्माभिर्विहितः तेषां किञ्चित् स्वरूपम् अस्य ग्रन्थस्य प्रथमपत्रेऽन्तिमपत्रे चाधस्तात् टिप्पने प्रदर्शितम् । अस्माभिः संशोधिता ग्रन्थाः शृङ्खलारूपेण प्रकाश्यन्ते । अतो ये ग्रन्थाः पूर्वं प्रकाशिताः तेषु याः अशुद्धयो दृष्टिपथमवतीर्णाः तासामपि परिमार्जनं संस्करणं च अस्माभिः ग्रन्थान्तरेषु विधीयतेविधास्यते च । अतः सटीकस्य स्थानाङ्गस्य प्रथम द्वितीय - तृतीयविभागानां शुद्धि-वृद्धिपत्रकमस्मिन् समवायाङ्गे नवमे परिशिष्टे द्रष्टव्यम् । तदनुसारेण स्थानाङ्गेऽपि शुद्धिर्वृद्धिश्च सुधीभिः स्वयमेव करणीया 1 यत्र पाठे किञ्चिद् विशेषतो वक्तव्यं तत्र * एतादृशं चिह्नं विहितम्, तत्र विशेषजिज्ञासुभिः तृतीये परिशिष्ट टिप्पनेषु द्रष्टव्यम् । अम्माकं या सम्पादने संशोधने च शैली सा पूर्वतनेषु ग्रन्थेषु प्रस्तावनादौ निवेदिता व तत एवावधार्या । धन्यवाद:- अस्य ग्रन्थस्य संशोधने सम्पादने च यतो यतः किमपि साहायकं लब्धं तेभ्यः सर्वेभ्यो भूयो भूयो धन्यवादान् वितरामि । विशेषतस्तु इमे स्मर्तव्या:- सटीकस्य समवायाङ्गसूत्रस्य प्राचीनान् हस्तलिखितानादर्शानवलम्ब्य आगमप्रभाकरपूज्यमुनिराजश्री पुण्यविजयजी महाभागैः संशोधनं विहितमासीत् । तं मु. श्री पुण्यविजयजीम. संशोधितमादर्शं मुख्यतया अवलम्ब्य स् ग्रन्थस्य संशोधनं सम्पादनं चास्माभिर्विहितम् । किञ्च, श्रीमहावीरजैन विद्यालयेन प्रारब्धाया जैनागमग्रन्थमालायाः प्रकाशने बीजभूताः प्रेरकाश्च आ. प्र. मु. श्रीपुण्यविजयजीमहाभागा एव । तैरेव च संशोधन-सम्पादनक्षेत्रेऽहं योजितः । अतः कृतज्ञभावेन तेषां चरणयोर्वन्दनं विदधामि । अनेकेभ्यो वर्षेभ्यः प्राक् आगमोद्धारकैराचार्यश्रीसागरानन्दसूरिभिः महान् ग्रन्थराशि: महता महता परिश्रमेण जैनसंघस्य पुरस्ताद् मुद्रयित्वा उपन्यस्तः । समग्रोऽपि जैनसंघः तैरुपकृतः । अतस्तेषामपि चरणयोः वन्दनं विदधामि ।

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 362