Book Title: Samvayang Sutram
Author(s): Jambuvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्री सिद्धाचलमण्डन-श्रीऋषभदेवस्वामिने नमः । श्रीशान्तिनाथस्वामिने नमः । श्री शङ्केश्वरपार्श्वनाथाय नमः ।
श्री महावीरस्वामिने नमः । श्री गौतमस्वामिने नमः । पूज्यपादाचार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरजीपादपद्मभ्यो नमः । पूज्यपादाचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरजीपादपद्येभ्यो नमः । पूज्यपाद सद्गुरुदेवमुनिराजश्री भुवनविजयजीपादपद्मभ्यो नमः ।
आमुखम् ।
अनन्तोपकारिणां परमकृपालूनां जिनेश्वराणां परमकृपया परमोपकारिणां पितृचरणानां सद्गुरुदेवानां पूज्यपादमुनिराजश्री भुवनविजयजीमहाराजानां च परमकृपया साहाय्येन च सम्पन्न पू.आ.भ.श्रीअभयदेवसूरिविरचितया वृत्त्या विभूषितं पञ्चमगणधरदेवश्रीसुधर्मस्वामि-परम्परयाऽऽयातं श्री समवायाङ्गसूत्रं प्राचीन-प्राचीनतर-प्राचीनतमविविधहस्तलिखितादर्शानुसारेण संशोधनं विधाय विविधैः परिशिष्टैश्च समलङ्कृत्य जिनागमरसिकानां पुरत उपन्यस्यन्तो वयमद्यामन्दमानन्दमनुभवामः ।
आ.प्र.पू.मुनिराजश्री पुण्यविजयजीमहाभागैः [प्रायः] चत्वारिंशतो वर्षेभ्यः प्राक समवायाङ्गसूत्रस्य समवायाङ्गवृत्तेश्च संशोधनं विहितमासीत् । आगमोदयसमित्या विक्रमसं.१९७४ तमे वर्षे प्रकाशिते वृत्तिसहिते समवायाङ्गसूत्रे, सूत्रस्य वृत्तेश्च प्राचीनान् हस्तलिखितानादर्शानवलम्ब्य पर शता: शुद्धपाठा: तैः स्वयमेव लिखिताः ।
तमिमम् आ.प्र.पू.मु.श्री पुण्यविजयजीम. संशोधितमादर्शमवलम्ब्य अन्यांश्च प्राचीनान् हस्तलिखितादर्शान् उपयुज्य, संशोध्य, विविधैः परिशिष्टैश्चालङ्कृत्य सम्पादितोऽयं ग्रन्थोऽस्माभिः । यदस्मिन् विषये किञ्चिद् वक्तव्यं तद् गूर्जरभाषायां निबद्धायां प्रस्तावनायां लिखितमस्माभिरतस्तत्रैव द्रष्टव्यं जिज्ञासुभिः ।
किञ्चान्यत्, श्रीमहावीरजैनविद्यालयेन विक्रमसंवत् २०४१ तमे [ई.स.१९८५] वर्षे जैन-आगमग्रन्थमालायां ग्रन्थाङ्क ३ रूपेण प्रकाशितस्य मूलमात्रस्य स्थानाङ्गसूत्रस्य समवायाङ्गसूत्रस्य च गूर्जरभाषानिबद्धायां प्रस्तावनायाम्, संस्कृतभाषानिबद्धे आमुखे, टिप्पणेषु, विविधेषु परिशिष्टेषु च यथायोगं विस्तरेण बहुतरं लिखितमस्माभिः । अतः सटीकस्य समवायाङ्गसूत्रस्य वैशयेन अध्येतृभिः

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 362