________________
से किं तं समवाए ?
श्रीसुधर्मस्वामिगणधरनिरूपितमभयदेवसूरिविवृत्तमिदं तुर्यागं नैकगभीरभावावभासनभासुरभास्करायमानं भविष्यति भविकात्मनां भव्यणिबन्धनमिति सहर्षं पुनः प्रकाश्यते। चतुस्त्रिंशदतिशयज्ञापकं पारमर्षमिदमिति त्वद्यतनबालानामपि श्रीपद्मविजयकृतश्रीयुगादिदेवस्तोत्रतः प्रसिद्धम् । पुण्यावसरेऽस्मिन् पूर्वप्रकाशकाः श्रीसिद्धिभुवनमनोहरजैनट्रस्ट -श्रीजैन आत्मानन्दसभासभ्या एवं सम्पादकाः संशोधकाश्च बहुश्रुतमुनिवरा: श्रीजम्बूविजया अप्यनल्पधन्यवादार्हाः ।
सार्धत्रिशतप्राचीन श्रुतसमुद्धारप्रेरकाणां वैराग्यदेशनादक्षाणामाचार्यदेवश्रीमद्विजयहेमचन्द्रसूरीश्वराणां पुण्यप्रेरणया समतासागरपंन्यासप्रवरश्रीपद्मविजयगणिवराणां शुभस्मृतौ श्रीजिनशासन आराधना - ट्रस्टग्रथितायां श्रीप्राचीनश्रुतसमुद्धारपद्ममालायां षड्विंशतितमं पद्ममिदं सानन्दं समर्पयामः श्रीश्रमणसङ्घायेति शम् ।
एतद्ग्रन्थस्वामित्वं श्रीजैन श्वेताम्बरमूर्तिपूजकतपागच्छसङ्घस्यैव । एतद्ग्रन्थपठनपाठनाधिकारी कृतयोगोद्वहनगुर्वाज्ञाप्राप्तमुनिरेव ।