Book Title: Samdarshi Acharya Haribhadra
Author(s): Sukhlal Sanghvi
Publisher: Mumbai University
View full book text
________________
સમદશી આચાર્ય હરિભદ્ર वरबोधिसमेतो वा तीर्थकृद् यो भविष्यति । तथाभव्यत्वतोऽसौ वा बोधिसत्त्वः सतां मतः ॥
-योगामिन्दु, २७०-७४ ४५. सांसिद्धिकमिदं ज्ञेयं सम्यकचित्रं च देहिनाम् । तथाकालादिभेदेन बीजसिद्धयादिभावतः ॥
-योगमिन्दु, २७५ ४१. अनेन भवनैगुण्यं सम्यग्वीक्ष्य महाशयः । तथाभव्यत्वयोगेन विचित्रं चिन्तयत्यसौ ॥
-योगमिन्दु, २८४ ४७. मोहान्धकारगहने संसारे दुःखिता बत ।
सत्त्वाः परिभ्रमन्त्युच्चैः सत्यस्मिन्धर्मतेजसि ।। अहमेतानतः कृच्छाद् यथायोगं कथंचन । अनेनोत्तारयामीति वरबोधिसमन्वितः ।। करुणादिगुणोपेतः परार्थव्यसनी सदा । तथैव चेष्टते धीमान् वर्धमानमहोदयः ॥ तत्तत्कल्याणयोगेन कुर्वन्सत्त्वार्थमेव सः । तीर्थकृत्त्वमवाप्नोति परं सर्वार्थसाधनम् ॥
-योगमिन्दु, २८५-८ ४.८. चिन्तयत्येवमेवैतत् स्वजनादिगतं तु यः । ___तथानुष्ठानतः सोऽपि धीमान् गणधरो भवेत् ॥
- योगमिन्दु, २८९ ४४. सविग्नो भवनिर्वेदादात्मनिःसरणं तु यः ।। आत्मार्थसम्प्रवृत्तोऽसौ सदा स्यान्मुण्डकेवली ॥
-योगमिन्दु, २८० ५०. लोकाराधनहेतोर्या मलिनेनान्तरात्मना । क्रियते सत्क्रिया साऽत्र लोकपंक्तिरुदाहृता ॥
-योगमिन्दु, ८८

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182