Book Title: Saklarhat Stotram
Author(s): Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 10
________________ विश्वे च ते भव्यजनाश्च विश्वभव्यजनाः, विश्वभव्यजना एव आरामाः विश्वभव्यजनारामाः, कुल्यानां तुल्याः कुल्यातुल्याः, विश्वभव्यजनारामेषु कुल्यातुल्या विश्वभव्यजनारामकुल्यातुल्याः । पुनः किम्भूता वाचः ? ' ताः' प्रसिद्धाः । इति पञ्चमश्लोकार्थः ||५|| अनेकान्तमताम्भोधिसमुल्लासनचन्द्रमाः । दद्यादमन्दमानन्दं, भगवानभिनन्दनः || ६ || व्याख्या— अभिनन्दनः आनन्दं दद्याद् इत्यन्वयः । 'अभिनन्दनः' अभिनन्दननामा [ चतुर्थो जिनः ] 'आनन्द' प्रमोदं 'दद्याद्' दिश्यात्, “डुदाञ् दाने” इति धातुः । किंलक्षणोऽभिनन्दनः ? 'अनेकान्तमताम्भोधिसमुल्लासनचन्द्रमाः' अनेकान्तमतं - स्याद्वादमतं तदेव अम्भोधिः - समुद्रः तस्य समुल्लासनं समुद्दीपनं तत्र चन्द्रमाः - विधुः । न विद्यते एकान्तो यत्र तद् अनेकान्तम्, अनेकान्तं च तद् मतं च अनेकान्तमतम्, अनेकान्तमतमेव अम्भोधिः अनेकान्तमताम्भोधिः, अनेकान्तमताम्भोधेः समुल्लासनं अनेकान्तमताम्भोधिसमुल्लासनम्, अनेकान्तमताम्भोधिसमुल्लासने चन्द्रमाः अनेकान्तमताम्भोधिसमुल्लासनचन्द्रमाः । किंलक्षणमानन्दम् ? [ अमन्दं ' ] सज्जं कार्यकरणक्षममित्यर्थः, अनल्पमिति वा । किंलक्षणोऽभिनन्दनः ? 'भगवान्' "भगोऽर्क १ ज्ञान २ माहात्म्य ३ यशो ४ वैराग्य ५ मुक्तिषु ६ । रूप ७ वीर्य ८ प्रयत्ने९ च्छा १० श्री ११ धर्मै १२ श्वर्य १३ योनिषु १४ ॥” (हैमा - नेकार्थ द्विस्वरकाण्ड श्लो० ५२) अर्क -योन्यर्थी वर्जयित्वा अत्र भगशब्दार्था ज्ञेयाः, भगः अस्यास्तीति भगवान् । इति षष्ठ श्लोकार्थः ॥ ६ ॥ Jain Education International " For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26