Book Title: Saklarhat Stotram
Author(s): Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 20
________________ व्याख्या-श्रीकुन्थुनाथः वः श्रिये अस्तु इत्यन्वयः । श्रियाअष्टप्रातिहार्यलक्ष्म्या युक्तः कुन्थुः-कुन्थुनामा नाथः-प्रभुः। 'श्रिया युक्तः कुन्थुः श्रीकुन्थुः, श्रीकुन्थुश्चासौ नाथश्च श्रीकुन्थुनाथः । 'वः युष्माकं "श्रिये' लक्ष्यै 'अस्तु' भवतु। किम्भूतः श्रीकुन्थुनाथः ? 'भगवान्' भगोऽस्यास्तीति भगवान् , भगशब्दार्थः पूर्वोक्तो ज्ञेयः । पुनः किंलक्षणः श्रीकुन्थुनाथः ? 'सनाथः' सहितः । काभिः ? 'अतिशर्द्धिभिः' अतिशयाः-देहाद्भुतादिकाः चतुस्त्रिंशत् तेषां ऋद्धयःविभूतयः ताभिः । अतिशयानां ऋद्धयः अतिशयर्द्धयः, ताभिः अतिशयर्द्धिभिः। पुनः किंलक्षणः श्रीकुन्थुनाथः ? 'एकनाथः' एकस्वामी। एकश्वासौ नाथश्च एकनाथः । केषाम् ? 'सुरा-ऽसुर-नृनाथानां' देवेन्द्रा-ऽसुरेन्द्र-चक्रवर्तिनाम् । सुराः-देवलोकवासिनः असुराः-पातालवासिनः नरः-मनुष्याः तेषां नाथाः-प्रभवः तेषाम् । सुराश्च असुराश्च नरश्च सुरा-ऽसुर-नरः, सुरा-ऽसुर-नृणां नाथाः सुरा-ऽसुर-नृनाथाः, तेषां सुरा-ऽसुर-नृनाथानाम् । इत्येकोनविंशतितमश्लोकार्थः ॥१९॥ अरनाथः स भगवाँश्चतुर्थारनभोरविः। चतुर्थपुरुषार्थश्रीविलासं वितनोतु वः ॥२०॥ व्याख्या-अरनाथः वः चतुर्थपुरुषार्थश्रीविलासं वितनोतु इत्यन्वयः । अरः-अरनामा नाथः-प्रभुः । अरश्चासौ नाथश्च अरनाथः । 'वः' युष्माकम् । 'चतुर्थपुरुषार्थश्रीविलासं' चतुर्थपुरुषार्थः-मोक्षः, "त्रिवर्गो धर्मकामार्थश्चतुर्वर्गः समोक्षकः” इति वचनात् , तस्य श्रीःलक्ष्मीः तस्या विलासः-क्रीडाविशेषः तम् । चतुर्णा सङ्ख्यापूरकः चतुर्थः, पुरुषस्य अर्थः पुरुषार्थः, चतुर्थश्चासौ पुरुषार्थश्च चतुर्थपुरुषार्थः, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26