Book Title: Saklarhat Stotram
Author(s): Punyavijay
Publisher: Atmanand Jain Sabha
View full book text
________________
शुक्लध्यानं तेन निर्मिता - निष्पादिता । सितं च तद् ध्यानं च सितध्या-" नम्, मूर्त च तत् सितध्यानं च मूर्चसितध्यानम्, मूर्त्तसितध्यानेन निर्मिता मूर्त्तसितध्याननिर्मिता । इति दशम श्लोकार्थः ॥१०॥
करामलकवद् विश्वं, कलयन केवलश्रिया । अचिन्त्यमाहात्म्यनिधिः, सुविधिर्बोधयेऽस्तु वः ॥ ११॥
व्याख्या — सुविधिः वः बोधयेऽस्तु इत्यन्वयः । 'सुविधिः' सुविघिनामा नवमतीर्थकरः । सुष्ठु - शोभनो विधिर्यत्र स सुविधिः । 'वः' युष्माकम् । बोधिः - जिनधर्मप्राप्तिः तस्यै, बोधिशब्दः स्त्रीलिङ्गः । 'अस्तु' भवतु । सुविधिः किं कुर्वन् ? ' कलयन् ' जानन् । किं कर्मतापन्नम् ? 'विश्व' जगत् । कया ? 'केवलश्रिया' केवलज्ञानकमलया, “पदैकदेशे पदसमुदायोपचाराद्” इतिन्यायात् केवलशब्देन केवलज्ञानमुच्यते । केवलस्य श्रीः केवलश्रीः, तया केवलश्रिया । किंवत् ? 'करामलकवत्' हस्तगतामलकफलवदित्यर्थः । करे आमलकं करामलकम्, करामलकमिव करामलकवत् । पुनः किंलक्षणः सुविधिः ? ' अचिन्त्यमाहात्म्य - निधिः' अचिन्त्यं-विचारयितुमशक्यं यद् माहात्म्यम् - अनुभावः तस्य निधिः - निधानम् । चिन्तनार्ह चिन्त्यम्, न चिन्त्यम् अचिन्त्यम्, महांवासौ आत्मा च महात्मा, महात्मनः भावः माहात्म्यम्, अचिन्त्यं च तद् माहात्म्यं च अचिन्त्यमाहात्म्यम्, अचिन्त्यमाहात्म्यस्य निधिः अचिन्त्यमाहात्म्यनिधिः । इत्येकादश श्लोकार्थः ॥ ११ ॥
१ करे-हस्ते अमलं-निर्मलं यत् कं जलं तद्वद्, इत्येवमपि केचिद् व्याख्यान्ति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26