Book Title: Saklarhat Stotram
Author(s): Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 17
________________ १२ कृत्कर्म, विश्वोपकारकीभूतं च तत् तीर्थकृत्कर्म च विश्वोपकारकीभूततीर्थकृत्कर्म, विश्वोपकारकी भूततीर्थकृत्कर्मणो निर्मितिर्यस्य स विश्वोपकारकीभूततीर्थकृत्कर्मनिर्मितिः । इति चतुर्दशश्लोकाक्षरार्थः ॥ १४ ॥ विमलस्वामिनो वाचः कतकक्षोदसोदराः । जयन्ति त्रिजगच्चे तो जलनैर्मल्यहेतवः ॥१५॥ - व्याख्या — विमलस्वामिनो वाचो जयन्तीत्यन्वयः । विमल :विमलनामा स्वामी - प्रभुः तस्य । विगतो मलो यस्मात् सः विमलः, विमलश्वास स्वामी च विमलस्वामी, तस्य विमलस्वामिनः । ' वाचः ' 'गिरः । ' जयन्ति' सर्वोत्कर्षेण वर्तन्त इत्यर्थः । किंलक्षणा वाचः ? ' कतकक्षोदसोदराः ' कतकं - कतकफलं तस्य क्षोदः - चूर्णः तस्य सोदरा:तुल्याः । कतकस्य क्षोदः कतकक्षोदः, कतकक्षोदस्य सोदराः कलकक्षोदसोदराः । पुनः किंलक्षणा वाचः ? 'त्रिजगच्चेतोजलनैर्मल्यहेतवः' त्रिभुवनमनः सलिलविमलताकारणम् । त्रयाणां जगतां समाहारः त्रिजगत्, त्रिजगतः चेतांसि त्रिजगच्चेतांसि, त्रिजगच्चेतांसि एव जलानि त्रिजगच्चेतोजलानि, निर्मलस्य भावः नैर्मल्यम्, त्रिजगच्चेतोजलस्य नैर्मल्यं त्रिजगच्चतोजलनैर्मल्यम्, त्रिजगच्चेतोजलनैर्मल्यस्य हेतवः त्रिजग'चेतोजलनैर्मल्यहेतवः । कोऽर्थः ? यथा कतकफलचूर्णेन सकलुषमपि सलिलं निर्मलीभवति तथा भगवद्वाण्या सकलुषाण्यपि त्रिजगचेतांसि निर्मलीभवन्ति । इति पञ्चदशश्लोकार्थः ॥ १५॥ स्वयम्भूरमणस्पर्द्धा, करुणारसवारिणा । अनन्तजिदनन्तां वः प्रयच्छतु सुखश्रियम् ॥ १६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26