Book Title: Sagar Dharmamrutam
Author(s): Ashadhar, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
यदाऽऽशाधरो धारापुरी समागतस्तदा तदायुर्विंशतिवर्षपरिमितमासीत् । तैजैनेन्द्रव्याकरणस्य जैनन्यायशास्त्राणां चाध्ययनं धारामेवागत्य कृतमिति धर्मामृतप्रशस्तितोऽवगम्यते । एतानि ग्रन्थानि तेन विदुषा विद्वद्वरमहावीराख्योपाध्यायात् श्रीवादिराजपण्डितधरसेनशिष्यादधीतानि । विषयान्तराणामध्ययनं कुत्र कस्मात्कृतमिति नावगम्यते । विद्याध्ययनानंतरं तेन संसारयात्रानिहाय व्यापारं राजसेवा वेत्यादि किं कार्यमनुष्ठितमत्र विषये किमपि न निर्णीयते परमिति त्वनुमीयते यत्तस्याशेषं जीवनं विद्यासेवने एव व्यतीतं स्यात् । व्याकरण-काव्य-कोश-न्याय-वैद्यक-धर्मशास्त्रादिविषयेषु तस्यासाधारणा गतिरासीत् । एषु अखिलेषु विषयेषु तेन शतानि विद्यार्थिनो निष्णापिताः । एतद्ग्रन्थप्रशस्तेर्नवमश्लोके तट्टीकायां च केषांचिनिजशिष्याणामुल्लेखं करोति कथयति च यदेतादृशा अनेके जना मया विद्वांसोऽनुष्ठिताः । यथा-पंडित देवचन्द्रादयो व्याकरणज्ञाः कृताः । वादीन्द्रविशालकीर्त्यादीन् षड्दर्शनन्यायज्ञान विधाय परवादिषु विजयः कारितः। भट्टारकदेवचंद्रविनयचंद्रादयः धर्मशास्त्राण्यध्यापयित्वा मोक्षमार्गे प्रवर्तिताः। मदनोपाध्यायादींश्च साहित्यज्ञान विधायार्जुनदेवसदृशानां सहृदयनृपाणां प्रतिष्ठाधिकारिणः (राजगुरवः ) कारिताः । एभिः कारणैः श्रीआशाधरस्य पाण्डित्यमतितरमित्यनुमीयते ।
विन्ध्यवर्मणः सांधिविग्रहिकमंत्रिणा महाकविविल्हणेन एकदा श्रीआशाधरस्य महती प्रशंसा कृता । तेनोक्तं हे आर्य युष्माभिः सह स्वाभाविकं सहोदर्य भ्रातृवर्य चास्ति, यतो यथा यूयं सरस्वती (शारदा) सूनवस्तथाहमपि सरस्वती ( मातृ) पुत्रोऽस्मि । विक्रमाङ्कचरित-कर्णसुन्दरीनाटकादिकर्ता विद्यापतिर्विल्हणः आशाधरप्रशंसाकर्तुरस्माद्विल्हणकवीशद्भिन्नेस्ति। विद्यापतिविल्हणेन विक्रमीयसंवत् विंशत्यधिकैकादशशत ११२० मिते काश्मीर।। नरेशकलशाख्यस्य राज्यसमये काश्मीरदेशस्त्यक्तः । अयं च विल्हणो विन्ध्यनरेन्द्रसमये विक्रमीयपंचाशदधिकद्वादशशता १२५० ब्दानुमिते जीवित आसीत् । आशाधरेण स्वीयप्रशंसाकोरुभयोर्विदुषो मनी अन्येपि दत्ते तयोरेक उदयसेनो मुनिर्द्वितीयश्च मदनकीर्तियतिपतिरासीत् । उदयसेनेन स
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org
Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 268