Book Title: Sagar Dharmamrutam
Author(s): Ashadhar, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
व्याघेरवालवरवंशसरोजंड्सः काव्यामृतोघरसपानसुतृप्तगात्रः नयविश्वचक्षुः कलिकालिदास इतिविशेषणैर्विशेषितः। एवं मदनकीर्तिनापि 'प्रज्ञापुंज' इत्युक्त्वा तस्य स्तुतिः कृता। उदयसेनमुनेः कश्चिदपि विशेषपरिचयो न मिलितः, परं तु मदनकीर्तियतिपतिविषयेऽधुना कतिचित् वृत्तांतानि अवगतानि संति । श्वेताम्बराचार्यराजशेखरसूरिणा पंचाधिकचतुर्दशशतविक्रमाब्दे १४०५ निर्मिते 'चतुर्विंशतिप्रबंधा'ख्यैतिहासिकग्रन्थे एको ' मदनकीर्तिप्रबन्धनामकोऽध्यायो वर्तते । तेन ज्ञायते यत् मदनकीर्तिः वादीन्द्रविशालकीर्तेः शिष्य आसीत् । स विद्वदग्रणी बभूव । चतसृणामपि दिशानां वादिनः पराजित्य तेन महाप्रामाणिकेति पदमधिष्ठितम् । एकदा स गुरुणा निषिद्धो दक्षिणापथं प्रस्थितः विजयमनुतिष्ठन् कर्णाटकदेशं प्राप्तः । तत्र विजयपुरनरेशः कुंतिभोजस्तत्पांडित्योपरि मोहितो जातः तस्माच्च सकाशात् स्वीयपूर्वजचरितविषयक एको ग्रन्थो निर्मापितवान् । मदनकीर्तिः पद्यरचनया यदाब्रवीत् तदैव च राजकन्या मदनमंजरी अपि पटाभ्यंतरे स्थिता तानि पद्यानि लिखतिस्म । केषुचिद्दिनेषु व्यतीतेषु तयोः परस्परं प्रेमाविर्भूतं एको द्वितीयं मनसा इच्छतिस्म । नृपेणेदं वृत्तमवगतं । तेन कुपितेन मदनकीर्तिवधायाज्ञा दत्ता परंतु तदर्थ कन्यापि मर्तु संनद्धा तदा विवशेन राज्ञा स क्षान्तः, तौ च विवाहसूत्रेण बंधितौ । मदनकीर्तिः गृहस्थो भूत्वा स्थितः अवसानावस्थापर्यंतमपि गृहस्थ एव आसीत् । विशालकीर्तिगुरुणा बहु प्रबोधितः परं किमपि फलं न जातं । मदनकीर्तेः कीदृशी दशा अभूदित्यनेनास्माकं न किमपि प्रयोजनं । अत्र तु तस्य विद्वत्तायाः संबंधोस्ति । अस्मिन् विषये न कोपि संदेहः यत् स दिग्गजविद्वानासीत् । तेन चाशाधरस्य प्रशंसा कृताऽऽसीत् । उपरि एकस्मिन् स्थले यस्य मदनोपाध्यायस्योल्लेखः आगतः यमाशाधरः काव्यशास्त्रे निपुणं कृतवान् स पूर्वोक्तमदनकीर्तितो भिन्न एव । मदनोपाध्यायोऽर्जुनवर्मदेवस्य गुरुरासीत् । तस्योपनाम बालसरस्वतीत्यासीत् । अर्जुनवर्मदेवेन स्वकृतामरुशतकटीकायामनेकस्थलेषु लिखितं " उक्तं चोपाध्यायेन बालसरस्वतीत्यपरनाम्ना मदनेनेति । " आशाधरेणापि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 268