Book Title: Report On Search For Sanskrit MSS Year 1880 1881
Author(s): F Kielhorn
Publisher: Government Central Book Depot

Previous | Next

Page 57
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir PALM-LEAF MSS. खमूले कर्मण्यवगततत्स्वरूपाः प्राणिनस्तदपगमार्थ यत्नमाधाय परमनिर्वृतिमधिगच्छंतीति निश्चित्य वहुविस्तरातिगंभीरकर्मप्रकृतिप्राभृतादिग्रंथोक्तकर्मस्वरूपावगाहनाऽसमर्थानां तथाविधायुर्वलमेधादिसामग्रीविकलानां सांप्रतसाधूनामनुग्रहकाम्यया समधिगतश्रुतजलधितत्वैरनेकवादसमरविजयिभिः श्रीशिवशर्मसूरिभिः संक्षिप्ततरं सुखाववोधं च गाथाशतपरिमाणनिष्पन्नयथार्थनामकं शतकाख्यं प्रकरणमभ्यधायीति । इदं च यद्यपि पूर्वचूर्णिणकारैरपि व्याख्यातं तथापि तचूर्णानामतिगंभीरत्वादस्मादृशां दुरधिगमत्वाच्च गुरुभ्यः समधिगतार्थस्यात्मसंस्मृतयेऽल्पधियामनुग्रहार्थं च मंदमतिनापि मया व्याख्यायते ॥ ७ ॥ अत्र चेयमादिगाथा सुणह इहेत्यादि ।। Ends : विनेयहिता नाम शतकवृत्तिः समाप्ता ॥ ७॥ प्रायोन्यशास्त्रदृष्टः सर्वोप्यर्थो मयात्र संरचितः । न पुनः स्वमनीषिकया तथापि यत्किंचिदिह वितथं ।। १ ।। सूत्रमतिलंव्य लिखितं तच्छोध्यं मय्यनुग्रहं कृत्वा । परकीयदोषगुणयोस्त्यागोपादानविधिकुशलैः ।। २ ।। छद्मस्थस्य हि बुद्धिः स्खलति न कस्येह कर्मवशगस्य । सदुद्धिविरहितानां विशेषतो मद्विधासुमतां ।। ३ ॥ कृत्वा यवृत्तिमिमां पुण्यं समुपार्जितं मया तेन । मुक्तिमचिरेण लभतां क्षपितरजाः सर्वभव्यजनः ॥ ४ ॥ श्रीप्रश्नवाहनकुलांवुनिधिप्रसूतः क्षोणीतलप्रथितकीतिरुदीर्णशाखः । विश्वप्रसाधितविकल्पितवस्तुरुच्चैश्छायाश्रितप्रचुरनिर्वृतभव्यजंतुः॥१॥ ज्ञानादिकुसुमनिचितः फलितः श्रीमन्मुनींद्रफलवृंदैः । कल्पद्रुम इव गछः श्रीहर्षपुरीयनामास्ति ।। २।। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121