Book Title: Ras Gangadhar
Author(s): Jagganath Pandit
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
शयेन तिरस्कारेण प्रियतमाविरहानलेन च दूयमानमनाः कुत्रापि निर्वृतिमलभमानः स्वकृतां गङ्गालहरीं पठन्प्राकृषि प्रवृद्धे गङ्गाप्रवाहे झम्पामदत्त, निममज च तत्रैव." ए. वमन्या अपि नानाविधाः पण्डितराज विषयिण्यो जनश्रुतयः श्रयन्ते. एताः सर्वा अपि प्रमाणशून्या इत्युपेक्ष्य पण्डितराजप्रणीतग्रन्थेभ्यो यदवगतं यच्चानुमितं तदेवात्र सप्रमाणमस्माभिः पुरस्क्रियते---
आसीतैलङ्गाभिजनो वेगिनाडकुलोत्पन: पेरुभट्टाख्यो महासुरसत्तमः, यो वाराणस्यां ज्ञानेन्द्रभिक्षोर्वेदान्तशास्त्रम्, महेन्द्रपण्डितान्यायवैशेषिकदर्शने, खण्डदेवात्पूर्वमीमांसाम्, शेषोपाहावीरेश्वरपण्डिताच महाभाष्यमधोतवान्. तस्मालक्ष्मीनामिकायां तद्धमंपन्यां जगनाथो जन्म लेभे, पठितवांश्च निखिलानि शास्त्राणि प्रायः स्वपितुरेव. प्राप्तयौवनश्चाश्रयेच्छया दिल्लीनगरे समागत्य शक्रोपमवैभवस्य शाहजहानाभिधयवनसार्वभौमस्य संसदि प्रवेशं लब्धवान्. अधिगतवांश्च निजविद्याचमत्कारपरितोषितात्तस्मादेव पण्डितराजपदवीम्. स्थितश्च मध्यमे वयसि प्रायस्तत्रैव तत्समीपे तत्सूनार्दाराशिकोहस्य समीपे च. शाहजहानमहीपतिस्तु १६२८ ख्रिस्ताब्दे राजसिंहासनमधिरूढः, १६५८ ख्रिस्ताब्दे औरङ्गजेबनाम्ना स्वपुत्रेण कारागारे निवेशितः, १६६६ ख्रिस्ताब्द च पञ्चत्वं गतः. दाराशाहस्तु प्रागेव दुर्दशामनुभाव्य औरङ्गजेबेन घातितः. पण्डितराजोऽपि वार्धके काश्यां मथुरायां वा गत्वा परमेश्वराराधनेन वयःशेषं नीतवान्. तस्माविस्ताब्दीयसप्तदशशतकमध्यभागे पण्डितराज आसोदिति सुव्यक्तमेव,
१. 'तेलङ्गान्वयमङ्गलालय-' इत्यादि प्राणाभरणसमाप्तिस्थे पद्ये, अग्रे समुद्ते आसफविलासप्रारम्भस्थे गये च स्फुटमस्य तैलगत्वम्. २. केचिद्भामिनीविलासपुस्तके .समाप्तौ 'इति श्रीमदखिलान्ध्रवेगिनाडिकुलावतंस-' इत्यादि समुपलभ्यते. ३. पेरुभट्टस्य पेरमभट्ट इत्यपि नामान्तरं प्राणाभरणान्ते समुपलभ्यते. ४. सिद्धान्तकौमुदीटीकायास्तत्त्वबोधिन्याः कर्तायं ज्ञानेन्द्रभिक्षुः स्यात्. ५. स्वपितुर्गुरोः शेषोपालवीरेश्वरपण्डितादपि किंचिदधीतवानिति मनोरमाकुचमर्दनारम्भे समुपलभ्यते. ६. 'अथ सकललोकविस्तारविस्तारितमहोपकारपरम्पराधीनमानसेन प्रतिदिनमुद्यदनवद्यगद्यपद्याद्यनेकवियाविद्योतितान्तःकरणः कविभिरुपास्यमानेन कृतयुगीकृतकलिकालेन कुमतितृणजालसमाच्छादितवेदवनमार्गविलोकनाय समुद्दीपितसुतर्कदहनज्वालाजालेन मतिमतेव नवाबासफखानमनःप्रसादेन द्विजकुलसेवाहेवाकिवाङ्मनःकायेन माथुरकुलसमुद्रेन्दुना राय. मुकन्देनादिष्टेन सार्वभौमश्रीशाहजहांप्रसादादधिगतपण्डितराजपदवीविराजितन तैलङ्गकुलावतंसन पण्डितजगन्नाथेनासफविलासाख्येयमाख्यायिका निरमीयत । सेयमनुग्रहेण सहदयानामनुदिनमुल्लासिता भवतात् ।' एतद्गद्यमासफविलासप्रारम्भ समुपलभ्यते. ७. दिल्लीवल्लभपाणिपल्लवतले नीतं नवीनं वयः' इति भामिनीविलासान्ते वर्तते. ८. जगदाभरणे दाराशाहस्यैव वर्णनं कृतमस्ति. ९. भामिनीविलासान्ते 'संप्रत्यन्धकशासनस्य नगरे तत्त्वं परं चिन्त्यते' इत्यस्ति. केचित्पुस्तकेप संप्रत्युज्झितवासनं मधुपुरीमध्ये हरिः सेव्यते' इत्यपि पाठः समुपलभ्यते. तत्रान्धकशासनस्य नगरं काशी, मधुपुरी च मथुरेति ज्ञेयम्.
For Private And Personal Use Only

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 533