Book Title: Ras Gangadhar
Author(s): Jagganath Pandit
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 11
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org जगन्नाथपण्डितराजः । Acharya Shri Kailassagarsuri Gyanmandir अद्यावधि ज्ञाताः पण्डितराजप्रणीता ग्रन्थास्त्वेते ( १ ) अमृतलहरी - यमुनास्तुतिरूपोऽयं ग्रन्थः काव्यमालायां मुद्रितः. ( २ ) आसफविलासः- :- अत्र नव्त्राबासफखानस्य वर्णनमस्ति रसगङ्गाधरेऽपि पद्यद्वयमासफनामाङ्कितं समुपलभ्यते तच्चास्मादेव समुद्धृतं स्यात् ग्रन्थोऽयमद्यापि नास्माभिरुपलब्धः केवलं पूर्व टिप्पण्यामुद्धृतं गद्यमलवरमहाराजाश्रितपण्डितभवानन्दोदयानन्दरामचन्द्रशर्मभिर्लिखित्वा पूर्वतरे वर्षे प्रहितमासीत्. मीपेऽप्ययं ग्रन्थः संपूर्णा नास्तीत्यपि तैरुक्तम. अस्मत्स ( ३ ) करुणालहरी - विष्णुस्तुतिरूपा काव्यमालायां मुद्रिता. ( ४ ) चित्रमीमांसाखण्डनम् - अप्रसिद्ध एवायं ग्रन्थः अत्राप्पदीक्षितकृतचित्रमीमांसाया दूषणानि संकलितानि सन्ति. ( ५ ) जगदाभरणम् - अत्र शाहजहानसूनोर्दाराशिकोहस्य स्तुतिरस्ति. किंतु प्राणाभरणसमानमेवैतत्काव्यम् प्रायः प्राणनारायणनामस्थले दाराशाहस्य नाम न्यस्तमस्ति अस्यैकं पुस्तकं कोटानगरनरेन्द्राश्रितकैलासवासिगङ्गावलमपण्डितममीपे दृष्टमासीत्. ( ६ ) पीयूषलहरी - - इयं गङ्गालहरीनाम्ना सुप्रसिद्धा मदाशिवचतुर्भुजरामचन्द्रादिकृतकतिपयटोकासमेता सुलभा मुद्रिता च. ( ७ ) प्राणाभरणम् - अत्र कामरूपदेशाधिपतेः प्राणनारायणमहीभृतो वर्णनमस्ति मुद्रितं चैतत्काव्यमालायाम् एतट्टिप्पणमपि पण्डितराजकृतमेवास्ति. ( ८ ) भामिनीविलासः - अयं पण्डितराजप्रणीतपय संग्रहरूपो ग्रन्थः सर्वत्र सुलभ एव, मुद्रित बहुवारम्. मोडकोपाह्वपण्डिताच्युतरायप्रणीता भामिनीविलासटोकापि समुपलभ्यते. ( ९ ) मनोरमाकुचमर्दनम् - अयं ग्रन्थो महोजिदीक्षितप्रणीताया मनोरमायाः खण्डनरूपो विरलप्रचार एव तत्रास्माभिरुपलब्धस्य पुस्तकस्य प्रारम्भे– “लक्ष्मीकान्तपदाम्भोजमानम्य श्रेयसां पदम् । पण्डितेन्द्रो जगन्नाथः स्यति गर्व गुरुदुहाम् ॥' इह केचिन्निखिलविद्वन्मुकुटमयूखमाला [ला ]लितचरणकमलानां गीर्वाणग[r] गौरवग्रास (ग्राम ?) मांसलमहिममण्डिताखण्डमहीमण्डलानां शेषवंशावतंसानां श्रीकृष्णपण्डितानां चिरायाचितयोः पादुकयोः प्रसादT [T] सादितशब्दान (नु)शासनास्तेषु च पारमेश्वरं पदं प्रयातेषु कलिकालवशंवदी भवन्तस्तत्रभवद्भिह (रु)ल्ला सितं प्रक्रिया प्रकाशमाशयानववेधनिबन्धनिवं (नवबोधनिबन्धनै) दूषणैः स्वयं निर्मितायां म For Private And Personal Use Only १. भोजिदीक्षितानाम् २. महोजिदीक्षिताः ३. अयमेव शेषश्रीकृष्ण पण्डितः कंसवध - पारिजातहरणयोः कर्तेति भाति, यतः कंसवधप्रस्तावनायामप्यात्मनो वैयाकरणतां प्रकटयति, अथ च समयेऽपि साम्यमस्तीति सुधीभिर्विचारणीयम्. ४. शेषश्रीकृष्णैः. ५. प्रक्रियाप्रकाशः प्रक्रियाकौमुदीटीका.

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 533