Book Title: Ras Gangadhar
Author(s): Jagganath Pandit
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 14
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नागेशभट्टः। अयं रसगङ्गाधरटीकाप्रणेता कालोपनामकदेशस्थमहाराष्ट्रब्राह्मणशिवभट्टसतीदेव्योः सूनुर्नागेशभट्टः काश्यां कस्मिन्समय आसीदिति विचारे मनोरमाकुचमर्दन-शब्दरत्न-मझूषादिग्रन्थविलोकनेनेत्यं पुरुषपरम्परावगता - शेषश्रीकृष्णः भटोजिदीक्षित: (शिष्यः) शेषवोरेश्वरः (पुत्रः) वीरेश्वरदीक्षितः (पुत्रः) पण्डितराजजगन्नाथः (शिष्यः) हरिदीक्षितः (पुत्रः) नागेशभट्टः (शिष्यः) अत्र पण्डितराजाद्वितीयः पुरुषो नागेश आसीदिति ज्ञायते. पूर्वनिर्णीते आमन्ने जगन्नाथपण्डितराजसमये १६६६ ख्रिस्ताब्दे पुरुषद्वयपर्याप्तानि चत्वारिंशद्वर्षाणि योज्यन्ते चेत्तदा १७०६ रिव्रस्ताब्दोऽयमासन्नो नागेशसमयः समायाति. अथ च “जयपुरमहाराजाः श्रीसवाईजयसिंहबर्माणोऽश्वमेधप्रसङ्गे नागेशभट्टाय निमन्त्रणपत्रं प्रहित. वन्तः. तदा नागेशेन 'अहं क्षेत्रसंन्यासं गृहीत्वा काश्यां स्थितोऽस्मि, अतस्तां परित्यज्यान्यत्र गन्तुं न शनोमि' इत्युत्तरं प्रहितम्' एषा किंवदन्ती जयपुरेऽधुनापि प्रसिद्धास्ति. श्रीजयसिंहमहाराजाश्च १७१४ ख्रिस्ताब्देऽश्वमेधं कृतवन्त इत्युक्तमेव प्राक. अयमश्वमेधसंवत्सरोऽपि पूर्वलिखित १७०६ ख्रिस्तसंवत्सरासन एवेति ख्रिस्ताब्दीयायादशशतकप्रथमतुरीयांशे नागेशभट आसीदिति व्यक्तमेव. केचित्त ख्रिस्ताब्दीयाष्टादशशतकपूर्वार्धानन्तरं नागेशसत्तां कथयन्ति. हरिदीक्षितशिष्योऽयं नागेशभट्टः स्वशिष्याच्छृङ्गवेरपुराधीशबिसेनवंशसमुद्भूतरामनृ १. 'अधीत्य फणिभाष्याब्धि सुधीन्द्रहरिदीक्षितात् । न्यायतन्त्रं रामरामाद्वादिरक्षोघ्नरामतः ॥ याचकानां कल्पतरोररिकक्षहुताशनात् । शृङ्गवेरपराधीशरामतो लब्धजी. विकः ॥ वैयाकरणनागेशः स्फोटायनऋषेर्मतम् । परिष्कृत्योत्तावांस्तेन प्रीयतामुमया शिवः ॥ दृढस्तऽस्य नाभ्यास इति चिन्त्यं न पण्डितैः । दृपदोऽपि हि संतीर्णाः पयोधौ रामयोगतः ॥ एते श्लोका मञ्जूषादिसमाप्तौ वर्तन्ते. २. 'बिसेनवंशजलधौ पर्णः शीत. करोऽपरः।-नाम्ना हिम्मतिवर्मा भद्धर्येण हिमवानिव।--तस्माजातो रामदत्तथन्द्राच्चान्द्रिरिवापरः।------तेन श्रीरामभक्तेन सर्वाविद्याः प्रजानता। शृङ्गवेरपुरेशेन रिपु. कक्षदवाग्निना ॥ अथिनां कल्पवृक्षेण विद्वजनसभासदा। भट्टनागेशशिष्येण बध्यते गमव For Private And Personal Use Only

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 533