Book Title: Rajprashniya Sutra
Author(s): N V Vaidya
Publisher: Khadayata Book Depot
View full book text
________________
बंधणनीलुप्पलपत्तणिगरमरगयासासगणयणकीयसिवन्ननिद्धे घणे अज्झुसिरे रूवगपडिरूवगदरिसणिजे आयंसगतलोवमे सुरम्मे सीहासणसंठिए सुरूवे मुत्ताजालखइयंतकम्मे आइणगरूयबूरणवणीयतूलफासे सव्वरयणामए अच्छे जाव पडिरूवे' इति, अस्य व्याख्या- तस्स णमिति' पूर्ववत् वनखण्डस्य बहुमध्यदेशभागे 'अत्र' एतस्मिन् प्रदेशे महान् एकोऽशोकवरपादपः प्रज्ञप्तस्तीर्थकरगणधरैः, स च किम्भूत इत्याह-'जाव पडिरूवे' अत्र यावच्छब्देन ग्रन्थान्तरप्रसिद्धं विशेषणजातं सूचितं, तच्चेदं-दूरुग्गयकन्दमूलवट्टलट्ठसंधिअसिलिट्टे घणमसिणसिणिद्धअणुपुव्विसुजायणिरुवहविद्धपवरखंधी अणेगणरपवरभुयअगेज्झे कुसुमभरसमोणमंतपत्तलविसालसाले महुकरिभमरगणगुमुगुमाइयणितिउड्डेतसस्सिरीए णाणासउणगणमि. हुणसुमहुरकण्णसुहपलत्तसद्दमहुरे कुसविकुसविसुद्धरुक्खमूले पासाइए दरिसणिज्जे अभिरुवे पडिरूवे' तत्र दूरमुत्-प्राबल्येन गतं कन्दस्याधस्तात् मूलं यस्य स दूरोद्गतकन्दमूलस्तथा वृत्तभावेन परिणत एवं नाम सर्वासु दिक्षु विदिक्षु च शाखाभिः प्रशाखाभिश्च प्रसृतो यथा वर्तुलः प्रतिभासते इति तथा लष्टाःमनोज्ञाः सन्धयः-शाखा गता यस्य स लष्टसन्धिस्तथा अश्लिष्टः-अन्यैः पादपैः सहासम्पृक्तो, विविक्त इत्यर्थः, ततो विशेषणसमासः, स च पदद्वयमीलनेनावसेयो, बहूनां पदानां विशेषणसमासानभ्युपगमात्, तथा घनो-निबिडो मसृण:कोमलत्वक् न कर्कशस्पर्शः, स्निग्धः-शुभकान्तिः, आनुपूर्व्याम्लादिपरिपाट्या सुष्टु जन्मदोषरहितं यथा भवति एवं जातः आनुपूर्वीसुजातः, तथा निरुपहत-उपदेहिकाद्युपद्रवरहितः उद्विद्धः-उच्चः प्रवरः-प्रधानः स्कन्धो यस्य स धनमसृणस्निग्यानुपूर्वीसुजातनिरुपहतोद्विद्धप्रवरस्कन्धः, तथा अनेकस्य नरस्य-मनुषस्य ये प्रवराः-प्रलम्बा भुजाः-बाहवस्तैरग्राह्यः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 286