Book Title: Radhanpur Pratima Lekh Sanodha
Author(s): Vishalvijay
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 337
________________ प्रभुत्वशालिनीभ्ये वा, दरिद्रे वाऽऽपदाकुले । प्रबले निर्बले वेश, मनो मेऽस्तु समं सदा ॥ ७९ ॥ विद्याशालिन्यविद्ये वा, वागीशे वा वचोऽक्षमे । सुन्दरे कुत्सिते वापि, समंस्तान्मानसं मम ॥ ८० ॥ उपकर्तरि भूयोऽपि, बहुशो वापऽकर्तरि । मानवे दानवे वा मे, सममस्तु मनः सदा ॥ ८१ ।। स्वातंत्र्ये पारतंत्र्ये वा, भवने वा वनेऽथवा । संयोगे वा वियोगे वा, मा मून्मे विषमं मनः ॥ ८२ ॥ सन्माने वापमाने वा, तृणे वा मसणे मणी । जीवने निधने वापि, मनो मे साम्यमश्नुताम् ॥ ८३ ॥ शय्यायां क्षेपके रोगे, सीस्थ्ये वा स्फूर्तिशालिनि । स्वपतो जाग्रतो वा मे, मा भूचित्तविपर्ययः ॥ ८४ ॥ दीर्घकालमहाकष्टार्जिताया अपि संपदः । भवन् क्षणे न विध्वंसः, क्षोभं माऽजीजनन्मम ॥ ८५ ॥ प्रभूतैश्वर्यसंप्राप्तो, देव हर्षोऽपि लेशतः । कन्था शेषे च दारिद्रये, मा विषादोऽपि भून्मम ॥ ८६ ॥ वचने दुर्जनोद्गीणे, कर्कशे मर्मघातिनि । न. स्ताद् रोषो न तोषो वा, गुणकीर्तनकारिणि ॥ ८७ ॥ मृत्स्नायां देव ! कृत्स्नायामृद्धौ वा चक्रवर्तिनः । अध्यात्मभावनालीनः, समतां चिन्तयान्यहम् ॥ ८८ ॥ शीते कम्पकरे रुद्रे, रौद्रे वा देहदाहके । दुर्धारासूत धारासु, धारये समतामहम् ॥ ८९ ॥ सुन्दाः सुकुमारांग्यास्तन्व्या आलिंगने स्त्रियाः । स्पर्श वाग्निशिखाया मे, मा स्म भूत् समताहता ॥ ९० ॥ "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366