________________
प्रभुत्वशालिनीभ्ये वा, दरिद्रे वाऽऽपदाकुले । प्रबले निर्बले वेश, मनो मेऽस्तु समं सदा ॥ ७९ ॥ विद्याशालिन्यविद्ये वा, वागीशे वा वचोऽक्षमे । सुन्दरे कुत्सिते वापि, समंस्तान्मानसं मम ॥ ८० ॥ उपकर्तरि भूयोऽपि, बहुशो वापऽकर्तरि । मानवे दानवे वा मे, सममस्तु मनः सदा ॥ ८१ ।। स्वातंत्र्ये पारतंत्र्ये वा, भवने वा वनेऽथवा । संयोगे वा वियोगे वा, मा मून्मे विषमं मनः ॥ ८२ ॥ सन्माने वापमाने वा, तृणे वा मसणे मणी । जीवने निधने वापि, मनो मे साम्यमश्नुताम् ॥ ८३ ॥ शय्यायां क्षेपके रोगे, सीस्थ्ये वा स्फूर्तिशालिनि । स्वपतो जाग्रतो वा मे, मा भूचित्तविपर्ययः ॥ ८४ ॥ दीर्घकालमहाकष्टार्जिताया अपि संपदः । भवन् क्षणे न विध्वंसः, क्षोभं माऽजीजनन्मम ॥ ८५ ॥ प्रभूतैश्वर्यसंप्राप्तो, देव हर्षोऽपि लेशतः । कन्था शेषे च दारिद्रये, मा विषादोऽपि भून्मम ॥ ८६ ॥ वचने दुर्जनोद्गीणे, कर्कशे मर्मघातिनि । न. स्ताद् रोषो न तोषो वा, गुणकीर्तनकारिणि ॥ ८७ ॥ मृत्स्नायां देव ! कृत्स्नायामृद्धौ वा चक्रवर्तिनः । अध्यात्मभावनालीनः, समतां चिन्तयान्यहम् ॥ ८८ ॥ शीते कम्पकरे रुद्रे, रौद्रे वा देहदाहके । दुर्धारासूत धारासु, धारये समतामहम् ॥ ८९ ॥ सुन्दाः सुकुमारांग्यास्तन्व्या आलिंगने स्त्रियाः । स्पर्श वाग्निशिखाया मे, मा स्म भूत् समताहता ॥ ९० ॥
"Aho Shrut Gyanam"