________________
नश्वरेषु स्वभावेन, भावेषु स्वजनादिषु । ममत्वापादकं मोहं, समोहानि जहानि च ॥ ६ ॥ देव ! त्वत्पादपद्मभ्योऽन्यत्र कुत्रचनापि मे । मानसभ्रमरस्यास्तु, न रागोऽशुभकर्मकृत् ॥ ६८ ॥ निजकर्मफलं विन्दन् , जनेऽनिष्टकरेऽप्यहम् । करवाणि न विद्वेष, देव ! साम्यमुपेयिवान् ॥ ६९ ॥ पामरो वाऽमरो वापि, प्रबलोऽप्यबलोऽथवा । सत्त्वः सर्वोऽपि मे मित्रं, ध्यायानीति निरन्तरम् ॥ ७० ॥ सर्वे मित्राणि मे जीवाः, सुखिनो दुःखवर्जिताः । निरोगाश्च सदा सन्तु, भावयानीत्यहर्निशम् ॥ १ ॥ यस्य कस्यापि जीवस्य, यं कंचिद् वीक्ष्य सद्गुणम् । हर्षेणोत्फुल्लरोमांचस्तदोषान्धो भवान्यहम् ॥ ७२ ॥ दरिद्रे दुर्गते दुःखपीडिते कृपणे जने । करुणां करवाणीश, शक्त्योपकरवाणि च ॥ ७३ ॥ विपरीतमतिकूरे, दुराचारविचारके । न द्वेषः किन्तु माध्यस्थ्यं, ममास्तु समताजुषः ॥ ७४ ॥ दुर्जने सज्जने वेश, निर्दये सदयेऽथवा । क्लेशकारिणि वाऽक्लेशे, माध्यस्थ्यं भवतान्मम ॥ ७५ ॥ निन्दकाय तिरस्कारकरायाघातकारिणे । घातकायापि वा देव नाहं रुध्याणि साम्यभाक् ॥ ७६ ॥ स्तापकाय पुरस्कारदायिने चाटुकारिणे । अर्चकायापि वा नाथ ! न तुष्यामि कदाप्यहम् ॥ ७७ ॥ सत्तामत्ते नराधीशे, रके भिक्षाकरेऽथवा । जनैर्मान्येऽथवानिन्ये, तुल्यवृत्तिमनोऽस्तु मे ॥ ७८ ॥
[२५९
"Aho Shrut Gyanam"