________________
॥ ५८ ॥
वामाः कामादयस्त्रातः, शत्रवः प्रभविष्णवः । कथं स्युमयि नाथाऽहं, चेत् त्वत्कारुण्यवर्मितः ॥ ५५ ॥ अध्यात्मभावना पद्मोल्लासो मानसमानसे । ममार्ह ननिशं स्तात् , त्वत्करुणारुणरश्मिभिः ॥ ५६ ॥ त्वत्कृपाशारदज्योत्स्ना भगवन् ! मम मानसे । वर्षन्ती साम्यपीयूष, पापतापमपास्यतु यथा साम्यसुधापाने निरतः सन्निरन्तरम् । पापव्यापारतो नाथ, विरतः स्यां तथा कुरु भगवन् । प्रशमं यान्तु, शिववर्त्मनि गच्छतः । अन्तरायकरास्ते मे, आन्तरा अरयोरयात् ॥ ५९ ॥ कोपो लोपकरः शान्तेर्गुणोद्यानदवानलः । सापराधेऽपि मा मून्मे, त्वत्वचमा ध्यायतो हृदि ॥ ६० ।। मानो विनयमूलस्य, यो धर्मस्यापि मर्मभित् । हृदये मे कदापीश !, प्रवेशं लभतां न सः ॥६१ ॥ सारल्यादिगुणग्रामग्रासकारिणी या मता । तस्या मायापिशाच्यास्तु च्छायापि स्पृशतान्न माम् ॥ ६२ ।। परस्य परमुत्कर्ष, संपदो वा पदस्य वा । दृष्ट्वा न किंचिदीाणि, हृष्यापि हृदि किन्त्वहम् ॥ ६३ ॥ तृष्णा कृष्णा भुजंगीव, तोषमंत्रवशीकृता । लालसा विषयविस्तारे, मा क्षमा भून्मयि प्रभो! ॥ ६४ ॥ निश्चलस्याचलस्येव, क्षोभं लोभाम्बुधिर्मम ।। समुत्पादयितुं देव !, मालम्भूष्णुः स्म मून्मनाक् ॥ ६५ ॥ जगत्त्रयविजेतापि, मदनो मदनं च मे ।
विभो विलीनतां यातु, शुभध्यानाशुशुक्षणौ ॥६६ ॥ २५८]
"Aho Shrut Gyanam"