________________
प्रार्थना वीतरागस्य, निष्फलेति मृषा वचः । फलन्ति किं न नीरागा, अपि कल्पद्रुमादयः ॥ ४३ ॥ महतां महनीयोऽसि, गुरूणां गुरुरप्यसि । वाचां न गोचरश्चासि, शक्या ते प्रार्थना कथम् ? ॥ ४४ ॥ अथवा प्रार्थनापेक्षा, निरपेक्षस्य केव ते । बिनैव प्रार्थनां दाने, महत्वं महतो महत् ॥ ४५ ॥ विना प्रार्थनयापीश, बहुभिर्भविभिस्तव । कृपा लब्धा सुलब्धं च, फल तैनिजजन्मनः ॥ ४६ ॥ अहमप्यागतोऽस्मीश, निकषा त्वां महाशया । बहूनामिव मेऽप्यद्य, कुरुवाशां फलेग्रहिम् ॥ ४७ ।। न याचे धनसंपत्ति, विपत्तौ परिणामिनीम् । प्रभूतां प्रभुतां भूतावेश-क्लेशकरी न वा ॥ ४८ ॥ विद्यामनिरवद्यां वा, विषयान् विषसंनिभान् । शिष्टानिष्टां प्रतिष्टां वा, मागये न तवाग्रतः ॥ ४९ ॥ याचे तु केवल नाथ !, कृपां तव कृताञ्जलिः । ययकयेव कि कि न, कामगव्येन लभ्यसे ॥ ५० ॥ सुदुस्तरोऽपि संसारसागरपारग! प्रभो! ।। गोष्पदेन समानः स्यात् , करुणां चेद् भवेत् तव ॥ ५१ ॥ कृपामृतेन सिंचेश्चेत् , चित्ते मे शुभधीलताम् । समत्वकुसुमं मुक्तिफल, सद्यो ददीत सा ॥ ५२ ।। करुणावारिणा देव !, बुद्धि शुद्धी करोषि चेत् । भवेऽत्र मे भवेन्मुक्ति, पदवी न दवीयसी ॥५३ ॥ क्लेशगर्नाकुले नानामतान्धतमसावृते । मुक्तिमार्गे सुखं यायां, त्वत्कृपादीपिकाऽस्ति चेत् ॥ ५४ ॥
[ २५७
"Aho Shrut Gyanam"
१७