________________
२५६ ]
नित्यासत्वे कृपायास्ते, हताशाः प्रार्थिनो हताः । अस्माभिः किन्तु तत्सत्वं प्रमाणः सुविनिश्चितम् ॥ ३१ ॥
नित्यं सत्वे पुनर्देव, सिद्धमस्मत्समीहितम् ।
शाश्वत्यां ते कृपायां यत् किमन्यदवशिष्यते ? ॥ ३२ ॥
}
कणिकापि कृपा पाति, भवतो भवतो जगत् 1 अचिन्त्यहिमा स्वाभिनास्तां सार्वेदिकी तु सा ॥ ३३ ॥ अथवा न गुणाः केचिद् योग्यता काचनाथवा । कृपायास्तव हेतुः स्यादिति साऽहेतुकोच्यते
॥ ३४ ॥
"
युज्यते तु भवाम्भोधि- समानां मादृशां प्रभो ! दुःखिनां दुःखमेवैकं, कृपायास्तव कारणम् दुःखिनो दुःखबीजस्य, मूलादुन्मूलनेन ते । कृपावतः समर्थस्य, कृपायाश्चरितार्थता
त्वादृशः करुणावान् न, कृपापात्रं न मादृशम् । अतो न युज्यते कंतु, विलम्बः करुणां तव
स्वभावो वेश ते दुःखिदुःखनाश कृपापरः । कथं पर्यनुयोज्यः स, पावकस्यैव दाहकः किं स्तुमस्तं स्वभावं ते, नीरागस्यापि देहिनाम् । चिन्तामणेरिवाधीशं, यो ददाति समीहितम् अतो योग्यतया मुक्ते, निर्गुणेऽथ च दुखिनि । स्वभाव करुणोऽसीति, विधेहि करुणां मयि
11 34 11
>
॥ ३६ ॥
"Aho Shrut Gyanam"
॥ ३७ ॥
॥ ३८ ॥
॥ ३९ ॥
चिरेण वाऽचिरेणेश, कर्तव्येव कृपा त्वया 1 परित्यज्य विलम्बं तत् सुयशो लभ्यते न किम् ॥ ४१ ॥
।। ४० ।।
विलम्बेन विना तस्मात् कुरु त्वं करुणां मयि ।
अपाकुरु च मे दुःखमिति त्वां प्रार्थये प्रभो ! ॥ ४२ ॥