________________
षड्रसे रसनामिष्टे, मिष्टे स्वादुनि भोजने । सुदीर्धे लंघने वेश, साभ्यं सात्म्यमुपैतु मे ॥ ९१ ॥ नानाविधे सुगन्धे वा, दुर्गन्धे मृतकस्य वा ।। मनो विपरिणामो मे, मा स्म भूद् देव ! जातुचित् ॥ ९२ ॥ सौन्दर्यमकदर्ये दृगमन्दानन्ददायकम् ।। दृष्टिक्लेशि कुरूप वा, व्याहन्तु समतां न मे ॥ ९३ ॥ सुकण्ठानिःसृते कर्णप्रिये सुललिते स्वरे । शब्दे श्रुतिकटौ या मे, समस्तात् सर्वदा मनः ॥ ९४ ॥ सर्वत्र सर्वदा सर्वावस्थास्त्रखिले वस्तुषु । अस्तु मे समतामग्न ममतारहितं मनः देववं सर्वथा साम्यमध्यात्मानन्दकारणम् । सद्यः प्रसद्य मे देहि, प्रार्थना नापरा मम ॥ १६ ॥ धन्यास्ते जन्मिनो वाप्य, ये दुरापां कृपां तव । स्फीतां साम्यसुधां पीता, अजरामरताश्रिताः ॥ ९७ ॥ कदा सुदिवसास्ते मे भविष्यंतीश ! येवहम् । त्वद्गुणश्रवणध्यानानुविधानादितत्परः लब्धत्वत्करुणाज्योत्स्नः, पीत साम्यसुधारसः । विध्यातपूर्वदुश्चीर्णकमपावकसंचयः
॥ ९९ ॥ प्रशांतसर्वसावयोगतीतोपतापकः । नष्टानुलग्नदुर्ध्यानदुरामयपरम्परः
॥ १० ॥ क्षीणातिसूक्ष्मरागादिकालकूटप्रभावकः । अवाप्त संवरस्वास्थ्यो, रुद्धनूतनकर्मरुक् ॥ १०१ ॥ लब्धा स्वाभाविकीमात्मावस्था स्फटिकनिर्मलाम् । प्राप्तस्तं परमानन्दं, भविष्यामि विनिर्वृतः ॥ १०२ ॥
"Aho Shrut Gyanam"