________________
॥ १०३ ॥
वेदाकाङ्कमृगाङ्कान्दे, विक्रमान्माघमासके ।। शुक्लपक्षे द्वितीयायां, ग्रामे राजगृहे स्थितः राजधन्यपुरावासी, श्रेष्ठित्रिकमचन्द्रजः । हरगोविन्दनामा त्वामिति प्रार्थयते प्रभो!
॥ १०४ ॥
[२] प्रशस्तिः ।
प्रतिवासुदेवजरासन्धभूपालमुक्तजराप्रभावेण निर्जीवद्रव्यवन्निश्चेष्टीभूतं श्रीकृष्ण सैन्यं यस्य स्नात्रपूतवारिणा प्रस्फूतिमातेनिवत् तं पञ्चमारेऽपि निष्प्रतिममाहात्म्यशालिन श्रीरालेश्वर पार्श्वनाथ भक्तिप्रवचेतसा वन्दे । यस्य भावामयप्रशमनीं निरवद्यां शमनीयसन्तापां सुधाभां वाचं निपीय विबुधा अधुनाऽप्यसमा समतां भजन्ते तं चरमजिनेन्द्र श्रीमहावीरस्वामिनं स्तवीमि । जगत्प्रभोस्तस्य श्रीवर्धमानस्वामिनो मुखाद्विनिर्गतां रम्यां त्रिपदी निगम्य यः शिवमागदीपिकां द्वादशाङ्गी विनिममे स गणभृत् श्रीसुधर्मा सर्वदा जीयात् । तत्पद्देऽज्ञानतमःप्रध्वंसतरणयः श्री जम्बूस्वामिप्रभृतयो भूरयः सूरयो बमूचुः । ततो यस्योपदेशः प्रतिबोध प्राप्य अकब्बरनामा क्षोणिपतिय वनोऽपि स्वराज्येऽमारिमुद्घोषयामास स सूरिमुख्यः श्रीहीरविजयाभिधानः सूरिरभवत्। ततः कारुण्यनिधानभगवत्श्रीतीथकरोक्तविधिविधाने मुनिभिः श्रितं शैथिल्यमवगम्य यस्तदुद्धरण विदधे स वैराग्यवासितान्तःकरणः पन्न्यासपदालतः श्रीसत्यविजयनामा गणी बभूव । ततो ज्ञानप्रभाकरेषु आचार्योपाध्यायपन्न्यासगणि-मुनिषु बहुवतीतेषु शम-दमारामोल्लासनाऽम्बुदोपमः श्रीबुद्धिविजयाभिधानो मुनिराजो जज्ञे, यदन्वये स्थितानां मुनीनामिदानीमनघा षट्शती वर्तते । तच्छिष्यो गुणजलनिध्युल्लासकारी सद्वृत्ताङ्गकः सुमधुरवाक्सुधावर्षकः शान्तमूर्तिः स ईशनाभव्यात्मनिबिडतमोनाशकः संसारोग्रसन्तापहारी
२१२]
"Aho Shrut Gyanam"