________________
ज्ञानोद्योतो भविककुमुदहर्षाधायी मुनीन्दुः श्रीवृद्धिचन्द्रनामा जज्ञे । तच्छिप्योतमो जिनेन्द्रशासननभोगभस्तिः श्रोविजयधर्मसूरीश्वरोऽभवत्, योऽखिलभारते यूरोपादिपरराष्ट्रषु च श्रीजिनागमसत्तत्वप्रचारमचक्रीयत, यस्य सुसंयम-वैराग्य-बदुष्य-प्रतिभापटुत्व धैर्यादिगुणान् समीक्ष्य विविधदेशागतप्रखरपण्डित सह काशीनरेशो महताऽऽदरेण "शास्त्रविशारद-जैनाचार्य' इति सन्माननीयाहाँ पदवी दत्ते स्म । परोपकारैकप्रवणहृदयो यो जैनशासनरसिकेभ्यो विविधज्ञानदानाय वाराणस्यां महामहोपाध्यायश्रीयशो. विजयजैनसंस्कृतपाठशालां, पादलिप्तनगरे श्रीयशोविजयजन गुरुकुलं, शिवपुर्या श्रीवीरतत्त्व प्रकाशकमण्डलं, स्वजन्मभूमौ महुवापुर्या श्रीयशोवृद्धि जेनबालाश्रम, पनवन्धवृद्धाऽनाथपशूनां च रक्षणाय वाराणस्यां पशुशालां प्रत्यतिष्ठियत् । येन सूरिक्यण आलराज्याधिकारिणः सदुपदेशं दत्त्वाऽर्बुदाचलतीर्थ श्रीजिनेन्द्रमन्दिरेषु परिहितचर्मोपनत्प्रवेशकारिणां घोराशातनाविधायिनां भूरिभारिप्रयास राज्यसत्तावलेन च प्रवेशप्रतिबन्धोऽकार्यत । येन च विविधप्राचीनग्रन्थप्रकाशनाय भावनगरे श्रीयशोविजयजैन ग्रन्थमाला स्थापिता, यस्या अधुनाऽपि “अभयचन्द्र-भगवानदास-गान्धी" इति शुभनामधेयो महाशयोऽनन्या सेवां विधत्ते । यः सूरेपुरन्दरो राणकपुरतीर्थे भवन्तीमाशातनां महता परिश्रमेण द्रीकृतवान् , तच्च प्रभावशालिप्राचीनतीर्थ " शेठ आणन्दजी-कल्याणजी-पेडी'' इति नाम्ना प्रसिद्धा जनसंस्था स्वीकारितवान् । य आचार्यदेवेश उपरियालातीर्थमुददीधत् , धर्मदेशनाऽहिसादिग्दर्शनाद्यने कान्यांश्च व्यररचत् ।
मुनिराजश्री-जयन्तविजयः तस्य मुविज्ञो बालब्रह्मचारी शान्तमूतिर्महात्मा जयन्तविजयाभिधः सुशिष्योऽभवत् । येन आबू-शळेश्वर-हम्मीरगढी-परियालादितीर्थक्षेत्राणां प्रभूतप्रयासरतिविस्तृतरूपेणेतिहासान् संलिख्य प्राकाश्यं नीताः, येन च वैक्रमीयसंवत्सरे १९९६ तमे पौषबहुलप्रतिपदि दुधरेजग्रामे प्रतिष्ठा कारिता, तस्मिन्नेव च संवत्सरे वढवाणकाम्पनगरे ( अधुना सुरेन्द्रनगरे ) माघशुक्ल
[२६३
"Aho Shrut Gyanam"