Book Title: Radhanpur Pratima Lekh Sanodha
Author(s): Vishalvijay
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 341
________________ प्रयोदश्यां " पानाचन्द ठाकरशी महेता-जैनबोडिंग'इति नामधेयायां संस्थायां भव्यजिनमन्दिरे आरसपाषाणीय-श्रीशङ्केश्वरपार्श्वनाथादिमूर्तित्रयाणां प्रतिष्ठामचीकरत् । यो वल्लभीपुरे झांझमेरग्रामवास्तन्याय श्रेष्टिभायचन्द्रात्मजजगजीवनदासाय न्यायसंपन्नस्वकीयद्रव्यकृतमहोत्सवाय १९९८ तमे संवत्सरे वैशाख शुक्ल सप्तम्यां तिथौ दीक्षा दत्तवान् , यस्य मुनि-जयानन्द विजय" इत्यभिधामकरोत् । मुनिराजः श्रीजयानन्द विजयः परमविनयशीलो वैयावृत्त्यगुणालङ्कृतः सुविहित क्रियारुचिमहान् तपस्वी च विद्यते । सच्चारित्र चूडामणि-श्रीजयन्तत्रिजयोपदेशेन मुम्बापुर्या भक्तश्रावकैः प्रदत्तार्थिकसाहाय्येन १९९८ तमे संवत्सरे वल्लभीपुरे तद्वास्तव्यश्रीसंघः श्राविकोपाश्रयं कारितवान् । येन च मुनिवरेण वल्लभीपुरे २००० तमे संवत्सरे “श्रीवृद्धिधर्मज्ञानमन्दिरम् " अकार्यत, यस्योद्घाटनक्रियां तन्नगरनृपतिर्गम्भीरसिंहोऽकरोत् । मुनिराजश्रीजयन्तविजयस्वर्गवासान्तरं यस्य ज्ञानमन्दिरस्य “श्रीवृद्धिधर्मजयन्तज्ञानमन्दिरम्" इत्यभिधानमिदानी वर्तते । यन्मुनिप्रवरोपदेशेन श्रावकैश्चोगठ-सरकडीयाग्रामयोहपाश्रयो भूतीयाग्रामे च गृहजिनमन्दिर कारितम् । शासनप्रभावनैकचित्तः स स्वशिष्यपरिवारेण विहृत्य राजधन्यपुरे गतवान् , तत्र च २००० तमे संवत्सरे पण्डितश्रीहरगोविन्ददासभगिनी मोंघीत्यभिधाना “पांचछोड'' इति नाम्ना प्रसिद्धमुद्यापनमकार्षीत्. तत्रैव च नगरे २००१ तमे संवत्सरे कार्तिक शुक्लषञ्चम्यां संस्कृतप्राकृतपालीभाषाप्रखर पण्डित-श्रीहरगोविन्ददासधर्मपत्न्या सुभद्रया उपधान विधाप्य महापुण्यमुपार्जितम् । २००३ तमे संवत्सरे छनीयारनामे प्रतिष्ठा कारिता । २००४ तमे संवत्सरे मोरबीपुर्या चतुर्मासी सम्पूर्णी-, कृता. किन्तु तत्र रोगग्रस्तं शरीरमभवत् । ततो देहिकाऽतिदोबल्येन डोलीत्य भिधानया नरवाहिन्या विहृत्य शिष्यपरिवारेण सह स्वजन्मभूमौ वल्लभीपुरे आगच्छत् । तत्र स्वायुः पूर्णप्रायं विज्ञाय मार्गशीर्षषष्ठयां सागारिकमनशनमकरोत् । २००५ तमे वक्रमीय संवत्सरे मार्गशीर्षसप्तम्यां. बुधवासरे प्रातः प्रतिक्रमणादिक्रियां कृत्वा संसारविरक्तिभावितचेता 'अरिहंत अरिहंत' इति वावद्यमानो मुनिवर्यः श्रीजयन्तविजयः स्वर्ग गतः । २६४ ] "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366