Book Title: Radhanpur Pratima Lekh Sanodha
Author(s): Vishalvijay
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 343
________________ इत्यभिधया सुप्रसिद्धमुद्यापन प्रभूतद्रव्यव्ययेनाऽकारि, जिनेन्द्रप्रासादे च पञ्चानां श्रीजिनेश्वरप्रतिमानां प्रतिष्ठा कारिता । आदर्शीभूतसवृत्ता अनुकरणीयधार्मिकवृत्तयश्च श्रावकाः ।। तीर्थाधिराज-श्रीशत्रुञ्जयतीर्थसमीपे घेटीत्यभिधानप्रसिद्धोऽतिप्राचीनो ग्रामोऽस्ति । प्रथमतीथङ्करो भगवान श्रीआदीश्वरोऽस्मादेव प्रामादारुह्य श्रीशत्रुञ्जयतीर्थे पूर्वनवनवत्तिवारान् समवससार, जैनशासनप्रभावकश्च आचार्यश्रीपादलिप्तसूरिरपि एतस्माद्ग्रामात् श्रीशत्रुञ्जयमालरोह; अत एतत्सद्ग्रामभूमिस्तीर्थतुल्या पवित्रा विद्यते । अत्रत्या जना भद्रकप्रकृतिका ऋजुहृदया धमभावनावन्तश्च विद्यन्ते । अस्मिन् प्रामे वीशाश्रीमालीज्ञातीयो जेठालालाभिधानः श्रेष्ठी बभूव, योऽतीवधर्मिष्टो न्यायसंपन्नविभवो धर्मकार्येषु चाऽग्रेसर आसीत् । यस्य पतिव्रता सुशीला च नन्दकुंवराभिधाना धर्मपत्न्यभवत् । तस्याः कुक्षेजयचन्द्र-धरमशी-त्रिभुवनदासनामानस्त्रयः सुपुत्रा अजायन्त । गुणवत्स्वमीषु त्रिषु भ्रातृषु मध्यमोऽन्यथनामा धरमशीरतीवशान्तस्वभावः सत्यप्रियश्चासीत् । तस्य चन्दनवत् शीतलस्वभावायाश्चन्दनाभिधानाया धर्मपत्न्याः कुक्षेः अमृतलाल-तलकचन्द्र-गिरधरलाला-ऽनन्तराय-मनसुखलाल-महीपतराया--ऽरविन्दरायनामानः सप्त सुपुत्रा अजायन्त । इमे सप्ताऽप्यधुना भावनगरे कलियुगेऽपि सप्तर्षिवत् संमिल्य सहैव निवसन्ति, मातृभक्ताश्च धर्मवद् जनन्याज्ञां परिपालयन्ति । नीतिपूर्वकव्यवसायकारिण इमे जिनेन्द्रपूजा-सामायिक-प्रतिक्रमण-पोषधादिधामिकक्रियासु दत्तचित्ताः, साधुसाध्वी-सामिकादिवैयावृत्त्यकरणे सोद्यमाः, सत्यवदने परोपकारकरणे च सदैव सावधानाः सन्ति । वयं २०१३ तमे संवत्सरे चोगठग्रामे चतुर्मासीमकुर्म, यत्र परमपूज्य-गुरुदेव-श्रीजयन्तविजयोपदेशेन भन्य उपाश्रयोऽजायत । अत्र सुश्रावको धरमशीस्तत्पुत्रो बाबुलालो धर्मनिष्ठा श्राविका हीरा च, इत्यादयः श्रावकश्राविकाः साधु-साध्वीभक्तिकरणे तत्पराः सन्ति । कर्मवैचित्र्येण बाबुलालस्य श्यालो महाभयकरराजयक्ष्मरोगग्रस्तोऽभवत् । तत्प्रतीकाराय कुशलैवेद्यर्विविधौषधानि दत्तानि, किन्तु देवप्रतिकूल्येन व्याधिः प्रतिदिनं वृद्धि प्राप्तवान् ।' २११] "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366