Book Title: Pravachana Saroddhar Part 2
Author(s): Hemprabhashreeji
Publisher: Prakrit Bharti Academy

View full book text
Previous | Next

Page 463
________________ ४४६ रचना-प्रशस्ति 300-000000000000033 Boardodcomseredattee तदनु धनेश्वरसूरिर्जज्ञे यः प्राप पुण्डरीकाख्यः । निर्मथ्य वादजलधिं जयश्रियं मुञ्जनृपपुरत: ॥ ५ ॥ भास्वानभून्नवीन: श्रीमदजितसिंहसूरिरथ यस्य । तपसोल्लासितमहिमा ज्ञानोद्योत: क्व न स्फुरित:? ॥ ६ ॥ श्रीवर्धमानसूरिस्तत: परं गुणनिधानमजनिष्ट । अतनिष्ट सोममूर्तेरपि यस्य सदा कलाविभवः ॥ ७ ॥ अथ देवचन्द्रसूरिः श्रीमान् गोभिर्जगज्जनं धिन्वन्। रजनीजानिरिवाजनि नास्पृश्यत य: परं तमसा ॥ ८ ॥ श्रीचन्द्रप्रभमुनिपतिरवति स्म तत: स्वगच्छमच्छमना: । अचलेन येन महता सुचिरं चक्रे क्षमोद्धरणम् ॥ ९ ॥ अथ भद्रभुवोऽभूवन् श्रीभद्रेश्वरसूरयः । ये दधुर्विधुतारीणि तपांसि च यशांसि च ॥ १० ॥ शिष्यास्तेषामभवन् श्रीमदजितसिंहसूरयः शमिन: । भ्रमरहितै: कुसुमैरिव शिरसि सदा यैः स्थितं गुणिनाम् ॥ ११ ॥ श्रीदेवप्रभसूरिप्रभवोऽभूवन्नथोन्मथितमोहाः । सूरिषु रेखा येषामाद्यैव बभूव भूवलये ॥ १२ ॥ अप्रमेयप्रमेयोमिनिर्माणेऽर्णवसन्निभाः। यैः प्रमाणप्रकाशोऽयं मथ्यते विबुधैर्ननु ॥ १३ ॥ श्रीश्रेयांसचरित्रादिप्रबन्धाङ्गनसङ्गिनी। यद्वाणी लास्यमुल्लास्य कस्य नो मुदमादधे ? ॥ १४ ॥ प्रज्ञावैभवशृंभणादहरहर्देवेज्यसब्रह्मभि यैर्वाग्ब्रह्म विनेयवृन्दहृदयक्षेत्रान्तरुप्तं तथा। नित्याभ्यासघनाम्बुवृष्टिघटनादंकूरितं पूर्णता मायातं फलति स्म वादिविजयैर्दत्तप्रमोदं यथा ॥ १५ ॥ नाप्लाव्यन्त कति स्मयोद्धुरधियो यद्गद्यगुम्फोर्मिभिः, यद्वाग्वैभवभङ्गिभि: कति न हि प्राप्यन्त हर्षं नृपाः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522