________________
४४६
रचना-प्रशस्ति
300-000000000000033
Boardodcomseredattee
तदनु धनेश्वरसूरिर्जज्ञे यः प्राप पुण्डरीकाख्यः । निर्मथ्य वादजलधिं जयश्रियं मुञ्जनृपपुरत: ॥ ५ ॥ भास्वानभून्नवीन: श्रीमदजितसिंहसूरिरथ यस्य । तपसोल्लासितमहिमा ज्ञानोद्योत: क्व न स्फुरित:? ॥ ६ ॥ श्रीवर्धमानसूरिस्तत: परं गुणनिधानमजनिष्ट । अतनिष्ट सोममूर्तेरपि यस्य सदा कलाविभवः ॥ ७ ॥ अथ देवचन्द्रसूरिः श्रीमान् गोभिर्जगज्जनं धिन्वन्। रजनीजानिरिवाजनि नास्पृश्यत य: परं तमसा ॥ ८ ॥ श्रीचन्द्रप्रभमुनिपतिरवति स्म तत: स्वगच्छमच्छमना: । अचलेन येन महता सुचिरं चक्रे क्षमोद्धरणम् ॥ ९ ॥ अथ भद्रभुवोऽभूवन् श्रीभद्रेश्वरसूरयः । ये दधुर्विधुतारीणि तपांसि च यशांसि च ॥ १० ॥ शिष्यास्तेषामभवन् श्रीमदजितसिंहसूरयः शमिन: । भ्रमरहितै: कुसुमैरिव शिरसि सदा यैः स्थितं गुणिनाम् ॥ ११ ॥ श्रीदेवप्रभसूरिप्रभवोऽभूवन्नथोन्मथितमोहाः । सूरिषु रेखा येषामाद्यैव बभूव भूवलये ॥ १२ ॥ अप्रमेयप्रमेयोमिनिर्माणेऽर्णवसन्निभाः। यैः प्रमाणप्रकाशोऽयं मथ्यते विबुधैर्ननु ॥ १३ ॥ श्रीश्रेयांसचरित्रादिप्रबन्धाङ्गनसङ्गिनी।
यद्वाणी लास्यमुल्लास्य कस्य नो मुदमादधे ? ॥ १४ ॥ प्रज्ञावैभवशृंभणादहरहर्देवेज्यसब्रह्मभि
यैर्वाग्ब्रह्म विनेयवृन्दहृदयक्षेत्रान्तरुप्तं तथा। नित्याभ्यासघनाम्बुवृष्टिघटनादंकूरितं पूर्णता
मायातं फलति स्म वादिविजयैर्दत्तप्रमोदं यथा ॥ १५ ॥ नाप्लाव्यन्त कति स्मयोद्धुरधियो यद्गद्यगुम्फोर्मिभिः,
यद्वाग्वैभवभङ्गिभि: कति न हि प्राप्यन्त हर्षं नृपाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org