Book Title: Pravachan Pariksha Part 02 Author(s): Dharmsagar, Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha View full book textPage 8
________________ श्रीप्रवचनपरीक्षा ७ विश्रामे ॥६॥ आगमिकमतोत्पच्यादिः : SHOROROSHOOOOOOOOHOR सासणसुअदेविथुईपडिसेहपरायणं नवीणमयं । पयडिकयं पावुदया तत्थ जुइ विगप्पिआ एवं ॥४॥ नाम्ना शीलगणदेवभद्रौ पौर्णिमीयकात-पूर्णिमाकुपक्षानिर्गतौ पल्लवपक्षे-अंचलपक्षे प्राप्तौ, पौर्णिमीयकैनिष्काशितौ स्तनिकपक्षनिश्रां कृतवन्तावित्यर्थः, तौ च तत्राधीत्य लब्धाचार्यपदौ ततो निर्गतौ समये-प्रस्तावे शत्रुञ्जयस्य पार्थे-शत्रुञ्जयपरिसरे तयोः बृहद्गणमुनयः सप्ताष्टौ वा गणनिर्गता मिलिताः, तैश्च सर्वैरपि मिलित्वा दुर्ध्यातं-दुष्ट पर्यालोचितं, यदि वयं किञ्चिन्नवीनं मतं प्ररूपयामः तदा शोभनमित्येवंरूपेण विचारितम् , अथ यथा विचारितं तदाह-शासनश्रुतदेवी-शासनदेवी श्रुतदेवी उपलक्षणात् | |क्षेत्रदेवता शासनसुरादयस्तेषां स्तुतिः-"सुअदेवया भगवई" इत्यादिरूपा तस्याः प्रतिषेधे परायणं-तत्परं नवीनं मतं, प्रकटीकृतम् , एतावता यथा ध्यातं तथैव जनानां पुरस्तात्परूपितमित्यर्थः,तत्र युक्तिर्विकल्पिता एवं-वक्ष्यमाणलक्षणा इतिगाथात्रयार्थः॥२-३-४।। अथ तस्य कुयुक्तिमाहतित्थयरो असमत्थो जेसुवि कजेसु तेसु को अण्णो। किं हुनावि समत्थो? ता कह सुअदेवयवराई ?॥५॥ येषु कार्येषु तीर्थकरोऽसमर्थः-शक्तिरहितस्तेषु कृत्येषु किं कोऽयं-तीर्थकरादपरः समर्थो भवेद् ?, अपितु न भवेत् , ता-तर्हि | श्रुतदेवता वराकी कथं भवेत् ?, तस्माद् ज्ञानाद्यर्थ तस्याः प्रार्थनमकिचित्करमित्यर्थ इतिगाथार्थः ॥२॥ एतादृग्युक्तिवक्ता कीदृग् स्यादित्याह इच्चाइअजुत्तीहिं मूढो मूढाण चक्कवद्दिसमो। न मुणइ वत्थुसहावं दिगयरदीवाइआहरणा ॥६॥ इत्यादिकयुक्तिभिरर्थाब्रुवाणो मूढो मूढानां मध्ये चक्रवर्तिसमो-मूर्खशेखरो वस्तुखभावं-वस्तुस्वरूपं जगदुदरवर्तिपदार्थ-16 HHOROSHOROCHONORONCHOL ॥६॥ For Pesonand Private Use OnlyPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 356