Book Title: Pravachan Pariksha Part 02
Author(s): Dharmsagar, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 10
________________ श्रीप्रवचनपरीक्षा ७विश्रामे ॥८॥ आगमिकमतोत्पत्यादिः THROHOROHOROHOROHOROSOOO संतंमि अतित्थयरे गोअमपमुहावि साहुणो सव्वे। भिक्खहावि पविहाकुलेसु गाहावईणपि ॥८॥ सति च-चोऽप्यर्थे सत्यपि तीर्थकरे-श्रीमहावीरनाम्नि विद्यमानेऽपि गौतमप्रमुखाः-साधवो मिक्षार्थमपि अन्नपानादिनिमित्तं | गृहपतीनां-गृहस्थानां कुलेषु प्रविष्टाः,चारित्राराधनहेतोरन्नपानादेर्दानशक्तिर्यथागार्यगारिणीनां न तथा तीर्थकृतामपि इतिदृष्टान्तेन | यथा चारित्रावष्टम्भनसामर्थ्य श्रुतदेवतादीनां न तथा तीर्थकृतामपीति,अनया दिशाऽनेके दृष्टान्ताः स्वयमभ्यूद्याः, यथा बहुमूल्येनापि रत्नैनासाध्यमपि कार्य शीतत्राणादिकं वस्त्राग्यादिसाध्यं, घृतेनासाध्यमपि शौचकर्मादिकं पिपासोशमनादिकं च जलसाध्यमित्यादि । लोकसिद्धं लोकोत्तरेऽपि वैयावृत्याधुपष्टम्भनादिना यथा साधवस्तीर्थप्रवृत्तिहेतवो न तथा तीर्थकृतोऽपीत्यादीतिगाथार्थः॥८॥ अथ त्रिस्तुतिकः शङ्कतेणणु सुअदेवीथुणणे भव विरहवराइपत्थणा तीए। णो जुत्ता जमसंतं वत्थु किं कोऽवि दिजावि? ॥९॥ ननु भोः श्रुतदेवतास्तवने 'आमूलालोलधूलीबहुलपरिमलालीढलोलालिमालाझङ्कारारावसाराऽमलदलकमलाऽगारभूमीनिवासे। छायासंभारसारे ! वरकमलकरे! तारहाराभिरामे !, वाणी संदोहदेहे भवविरहवरं देहि मे देवि ! सार ॥१॥ मित्यादिरूपे भवविरहवरादिप्रार्थना तस्याः श्रुतदेवताया न युक्ता,यद्-यसात् कारणादसद्वस्तु-खसत्तायामविद्यमानं वस्तुजातं कोऽपि किं दद्यादपि, अपि तु न कोऽपि दद्याद् , अयं भावः-श्रुतदेवताया एव भवविरहाभावात् कथं सा भवविरहवरं दद्याद् ?, न हि स्वसत्तायामविद्यमानं वस्तुजातं दातुं कोऽप्यलं भवेत् , तसादकिश्चित्करी श्रुतदेवतास्तुतिरिति गाथार्थः ।।९।। अथ स्वसत्तायां विद्यमानमेव वस्तु दीयते नान्यदिति नियमाभावं दर्शयन् दूषयति SHOROSHASHOKOHOROHI Jan Econo Fored Pies

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 356