SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ७विश्रामे ॥८॥ आगमिकमतोत्पत्यादिः THROHOROHOROHOROHOROSOOO संतंमि अतित्थयरे गोअमपमुहावि साहुणो सव्वे। भिक्खहावि पविहाकुलेसु गाहावईणपि ॥८॥ सति च-चोऽप्यर्थे सत्यपि तीर्थकरे-श्रीमहावीरनाम्नि विद्यमानेऽपि गौतमप्रमुखाः-साधवो मिक्षार्थमपि अन्नपानादिनिमित्तं | गृहपतीनां-गृहस्थानां कुलेषु प्रविष्टाः,चारित्राराधनहेतोरन्नपानादेर्दानशक्तिर्यथागार्यगारिणीनां न तथा तीर्थकृतामपि इतिदृष्टान्तेन | यथा चारित्रावष्टम्भनसामर्थ्य श्रुतदेवतादीनां न तथा तीर्थकृतामपीति,अनया दिशाऽनेके दृष्टान्ताः स्वयमभ्यूद्याः, यथा बहुमूल्येनापि रत्नैनासाध्यमपि कार्य शीतत्राणादिकं वस्त्राग्यादिसाध्यं, घृतेनासाध्यमपि शौचकर्मादिकं पिपासोशमनादिकं च जलसाध्यमित्यादि । लोकसिद्धं लोकोत्तरेऽपि वैयावृत्याधुपष्टम्भनादिना यथा साधवस्तीर्थप्रवृत्तिहेतवो न तथा तीर्थकृतोऽपीत्यादीतिगाथार्थः॥८॥ अथ त्रिस्तुतिकः शङ्कतेणणु सुअदेवीथुणणे भव विरहवराइपत्थणा तीए। णो जुत्ता जमसंतं वत्थु किं कोऽवि दिजावि? ॥९॥ ननु भोः श्रुतदेवतास्तवने 'आमूलालोलधूलीबहुलपरिमलालीढलोलालिमालाझङ्कारारावसाराऽमलदलकमलाऽगारभूमीनिवासे। छायासंभारसारे ! वरकमलकरे! तारहाराभिरामे !, वाणी संदोहदेहे भवविरहवरं देहि मे देवि ! सार ॥१॥ मित्यादिरूपे भवविरहवरादिप्रार्थना तस्याः श्रुतदेवताया न युक्ता,यद्-यसात् कारणादसद्वस्तु-खसत्तायामविद्यमानं वस्तुजातं कोऽपि किं दद्यादपि, अपि तु न कोऽपि दद्याद् , अयं भावः-श्रुतदेवताया एव भवविरहाभावात् कथं सा भवविरहवरं दद्याद् ?, न हि स्वसत्तायामविद्यमानं वस्तुजातं दातुं कोऽप्यलं भवेत् , तसादकिश्चित्करी श्रुतदेवतास्तुतिरिति गाथार्थः ।।९।। अथ स्वसत्तायां विद्यमानमेव वस्तु दीयते नान्यदिति नियमाभावं दर्शयन् दूषयति SHOROSHASHOKOHOROHI Jan Econo Fored Pies
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy