SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ७ विश्रामे 11911 HONGKONGHO DIGIONSHO% Jain Educationa International परिणतिं न जानाति, अयं भावः - अनन्तबलभृत् तीर्थकरो यद्यसमर्थस्तर्हि बहुप्रार्थितापि वराकी श्रुतदेवता कथं समर्था इति श्रुतदेवतास्तुतिर्नास्माकं सम्मतेत्यर्थः, तत्र वस्तुस्वरूपं न जानातीत्यत्र दृष्टान्तमाह 'दिनकरे' त्यादि, दिनकरदीपाद्युदाहरणाद्-अन्धकारनाशने समर्थोऽपि दिनकर :- सूर्यः प्रदीपसाध्ये-भूमिगृहाद्यन्धकारनाशे न समर्थः, यः सामर्थ्यमधिकृत्याधिकः स सर्वत्रापि समर्थ एव स्याद् एवं नियमो नास्तीति दिनकरदीप दृष्टान्तेन श्रुतदेवतासाध्ये कार्येऽर्हन् समर्थ एव स्यादिति नियमाभावो दर्शितः, तथैव वस्तुस्वभावाद्, अत एव श्रीगौतमप्रबोधितोऽपि कर्षकः श्रीमहावीरदर्शनादर्शनादिशून्यः संसारं भ्रान्त इत्यागमप्रसिद्धेरितिगाथार्थः || ६ || अथ पुनरपि लोकसिद्धदृष्टान्तमाह महफलओ सहगारो जंबूफलकारणंपि किं हुज्जा १। कोहंडीफलहेऊ किं सहगारो समिद्धोऽवि १ ॥७॥ महाफलदोऽपि कलिकाले कल्पद्रुमोपमया फलदाताऽपि सहकार : किं जम्बूफलकारणमपि भवेद् ?, अपि तु न भवेत्, यद्वस्तु महत् सन्महाफलकारणं तत्तुच्छफलकारणं भवत्येवेति नियमो नास्त्येवेति दर्शितं किञ्चित्फलं महदपि तुच्छजन्यं महताऽपि जनयितुमशक्यमित्यत्र दृष्टान्तमाह- 'कोहंडी' ति कूष्माण्डीफलहेतुः किं समृद्धोऽपि वसन्तत पत्रमञ्जर्यादिसंयुक्तोऽपि सहकार :आम्रवृक्षः किं स्याद् १, अपितु न स्यात्, कूष्माण्डी नाम वल्लीविशेषः, सा च सहकारादिमहावृक्षापेक्षया तुच्छा स्त्रीरूपाऽपि यन्महत्फलं ददाति तत्सहकारादिना केनापि दातुं न शक्यते, तेन यत्फलं श्रुतदेवतया दीयते तत्फलं केनापि दातुमशक्यम्, अत एव श्रीहेमाचार्येण सरखती समाराधिता प्रवचनप्रभावनाहेतुः संपन्नेत्यग्रे दर्शयिष्यते इति गाथार्थः ||७|| अथास्तामन्यत्, तीर्थकरे विद्यमानेऽपि तीर्थकरासाध्यं तदतिरिक्तजनसाध्यं चेति दर्शयति For Personal and Private Use Only GORGONGHONGKONGHOLFHOLT ORG आगमिकमतोत्पच्यादिः 11911 wwww.jninelibrary.org.
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy