________________
श्रीप्रवचनपरीक्षा ७ विश्रामे ॥९॥
GIONS ONGOGY GOONGHO
नेवं निअमो जम्हा दिति असंतंति नेव संतंपि । जिणपमुहा सुअणाणं केवलणाणं च आहरणं ॥ १० ॥ नैवं नियमः सदेव दीयते नान्यदित्येवं नियमो नास्तीति, अत्र व्यभिचारस्थानमाह - 'दिति' त्ति जिनप्रमुखाः - जिनेन्द्राचार्यादयोऽसदपि स्वसत्तायामविद्यमानमपि ददति, सदपि विद्यमानमपि च न ददति, तत्किमुदाहरणमित्याह श्रुतज्ञानं केवलज्ञानं चोदाहरणम्, अयं भावः - जिनेन्द्राणां स्वसत्तायां श्रुतज्ञानं नास्ति तदपि 'उप्पन्नेइ वे' त्यादिमातृकापदेन तेऽहंतो द्वादशाङ्गीमपि भावश्रुतं प्रयच्छन्ति, अत एव शक्रस्तवे 'चक्खुदयाण' मित्यर्हतां विशेषणं, न चार्हतां श्रुतज्ञानं सत्तायां भविष्यतीति शङ्कनीयं, छास्थिके ज्ञाने नष्ट एव केवलोत्पत्तेः, यदागमः- “उप्पण्णंमि अणते नांमि उ छाउमत्थिए णाणे"त्ति, अस्ति च केवलज्ञानं तदंशमपि न प्रयच्छन्ति, विद्यमानस्यापि तस्य दानाशक्तेः, अत एव मत्यादिज्ञानचतुष्टयस्य नोद्देशादिकं श्रुतज्ञानस्य तु तस्य सच्चात्, यदागमः - " चत्तारि णाणाई ठप्पाई ठवणिजाई, णो उद्दिसति यावत् सुअणाणस्स उद्देसो समुद्देसो अणुण्णा अणुओगो पवत्तई "चि, | तथा अकेवलिनोऽपि गौतमादयः स्वशिष्यान् प्रति हेतुमात्रभवनेन केवलज्ञानदायिनो, न तथा लब्ध्यादीनामपीत्येवमुदाहरणेन यद्यपि श्रुतदेवताया भवविरहो नास्ति तथापि तादृग्वस्तुस्वभावाद् दद्याद्वा भवविरहहेतुत्वात् कारणे कार्योपचाराद्भवविरहरूपाणि | ज्ञानादीनि तेषां दात्री भवत्येव, ननु श्रीहेमाचार्यादिदृष्टान्तेन श्रुतज्ञानदातृत्वं भवतु, एवं दर्शनस्यापि नासंभवो, यतो देवादि|भ्योऽपि सम्यक्त्वलाभश्रवणात् परं चारित्रं तु ततो न भवत्येवेतिचेन्मैवं, हेतुमात्रेण मेतार्यादीनामागमे प्रतीतत्वात् शासन| देव्यादिभ्यो रजोहरणादिलिङ्गलाभात् प्रत्येकबुद्धादीनामपि द्रव्यचारित्रलाभस्या विरोधात् तेन तद्वरप्रार्थनं नायुक्तमितिगाथार्थः |||१०|| न चैवं सर्वथा नियमाभाव एव, किंतु क्वचिन्नियमो ऽपीत्याह
Jain Education International
For Personal and Private Use Only
IGHLIGIOUGHOUGHOUTDOORSHS
श्रुतदेवतादिस्तुतिसिद्धिः
॥९॥
www.jainelibrary.org