SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ७ विश्रामे 112011 SHONGKONGHONGKONGKONGKONGHONG दिस्तुति सिद्धिः जो पुण कत्थवि नियमो दीसइ दव्वंमि न उण भावेऽवि । अण्णह पडिमापमुहाऽऽराहणमवि निष्फलं पावे ॥ ११ ॥ श्रुतदेवतायः पुनः कुत्रापि नियमो दृश्यते स द्रव्ये द्रव्यविषयोऽवगन्तव्यो द्रव्यं हि कनकादिलक्षणमन्नादिलक्षणं वा दीयमानं विद्यमानमेव-स्वसत्तायां वर्त्तमानमेव दीयते, न पुनरसत्, 'उप्पन्नेइ वा इत्यादि मातृकापदरूपं यद्रव्यश्रुतं तद्गणधरेभ्यो विद्यमानं सदेव दीयते इति न व्यभिचारः, ननु तीर्थकर शासन देवताभ्यां दीयमाने द्रव्यलिङ्गे व्यभिचारो, यतस्तयोरविद्यमानमेव द्रव्यलिङ्गं परेभ्यो दीयते इति चेत्सत्यं, तयोस्तथाविधकल्पत्वात्, तथाविधव्यतिकरातिरिक्तस्थले व्याप्तेर्नियमात् यद्वा यद्यपि तीर्थकृच्छ्रुतदेवताभ्यां रजोहरणादिकं लिङ्गत्वेन चारित्रबुद्ध्या स्वयं गृहीतं नास्ति तथापि द्रव्यत्वेन सद्भूतमेव दीयते, न पुनरसदपि, तस्माद्द्रव्यमन्तरेण द्रव्योत्पत्तिदानाद्यसंभवात् द्रव्यविषयो नियमोऽव्यभिचारेण सिद्ध्यति, न पुनर्भावेऽपि - भावविषयोऽपि नियमः, न हि देयस्य भावस्य सद्भावो दातुरपि युज्यते, श्रुतज्ञानमाश्रित्य तीर्थकृत्येव व्यभिचारः प्रागेव दर्शितः, अन्यथा यदि भावोऽप्यात्मनि सन्नेव दीयते इति नियमः स्यात्तर्हि प्रतिमाप्रमुखाराधनं - जिनप्रतिमाद्याराधनं निष्फलं प्राप्नुयाद्, यतः सम्यग्दृष्टिपरिगृहीता जिनप्रतिमा भाव ग्रामतया भणिता, आदिशब्दात् सारूपिकादयोऽपि ग्राह्याः, यदागमः - "तित्थयरो १ जिण २ चउदस ३ भिण्णे ४ संविग्ग ५ तह असंविग्गे ६ । सारूविअ७ वय८ दंसण ९ पडिमाओ १० भावगामा उ" ॥ १॥ इतिश्रीबृहत्कल्प भाष्ये, तद्वश्यैकदेशो यथा - तीर्थकरा - अर्हन्तः जिना:- सामान्यकेवलिनः अवधिमनःपर्यायजिना वा चतुर्द्दशपूर्विणो दशपूर्विणश्च प्रतीताः 'मिष्ण' त्ति असंपूर्णदश पूर्वधारिणः संविग्नाः- उद्यतविहारिण असंविप्राः - तद्विपरीताः सारूपिका नाम श्वेतवाससः क्षुरमुण्डितशिरसो मिक्षाटनोपजीविनः पश्चात्कृतविशेषाः 'वय'त्ति प्रतिपन्नाणुव्रताः श्रावकाः 'दंसण'त्ति दर्शन श्रावकाः अविरतसम्यग्दृष्टय इत्यर्थः प्रतिमाः - Jain Education International HOROYONGOONG HONGKONGKONG For Personal and Private Use Only ॥१०॥ www.jainelibrary.org.
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy