Book Title: Pravachan Pariksha Part 02
Author(s): Dharmsagar,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
श्रीप्रवचन
परीक्षा ७ विश्रामे
॥ १.१२ ॥
अर्हद्विम्बानि, एषः सर्वोऽपि भावग्रामः, एतेषां दर्शनादिना ज्ञानादिप्रसूतिसद्भावात्, अत्र परः प्राह - ननु युक्तं तीर्थकरादीनां ज्ञाना| दिभावरत्नत्रयसंपत्समन्वितानां भावग्रामत्वं, ये पुनरसंविग्रास्तेषां कथमिव भावग्रामत्वमुपपद्यते १, नैष दोषः, तेषामपि यथावस्थितप्ररूपणाकारिणां पार्श्वतो यथोक्तधर्ममाकर्ण्य सम्यग्दर्शनलाभ उदयते, अतस्तेषामपि भावग्रामत्वमुपपद्यते, कृतं प्रसङ्गेनेत्यादि बृह वृ०, अथ प्रतिमानां सर्वथा ज्ञानादिशून्यत्वेऽपि परेषां ज्ञानादिहेतुत्वाद्, एवं सारूपिका अपि, अविरतदेश विरतास्तु श्रावकाः स्वयं | चारित्रपरिणामरहिता अपि सदुपदेशेन परेषां तत्परिणामहेतवो भवन्ति, एवं श्रुतदेवताऽपि स्वयं अतथाभूताऽपि चारित्राद्युपष्टम्भहेतुत्वेन तस्याः तथाविधप्रार्थनाऽपि फलवत्येवेतिगाथार्थः || ११|| अथ जगत्प्रवृत्तिहेतुवस्तुस्वरूपप्ररूपणाय गाथायुग्ममाह
दवा दव्वभावा नय भावा किंचि हुज्ज दब्वाइ । तेणेव जगपवित्ती कारणविसया फलठ्ठीणं ॥ १२ ॥ फलजणयं खलु कारणमिह दिहं तंपि नेव फलजुत्तं । साहुसरीरा मोक्खो न सरीरं मोक्खसंजुत्तं ॥ १३॥ द्रव्यात् कनकादेर्द्रव्यं-कनककुण्डलादिकं द्रव्यं भावश्च - तथाविधजीवादेर्नानापरिणामविशेषः तावुभावपि भवतः, न च भावात् किंचिद्रव्यादि भवेत्, नहि तथाविधपरिणामात् किंचित्कनकादिकं संपद्यते, न वा स्वकीयपरिणाममात्रात् परकीयपरिणा| मोत्पत्तिः स्यात्, तेनैव कारणेन जगत्प्रवृत्तिः फलार्थिनां कारणविषया भवति, कारणं खलु इह जगति फलजनकं दृष्टमपि पुनस्तत्कारणं फलयुक्तं नैव - नास्त्येव, कारणं खलु इह जगति फलजनकं स्यात्, न पुनः फलयुक्तमपीति भावः, फलयुक्तत्वे हि युगपद् द्वयोरुत्पत्तिः प्रसज्येत, तथा च कारणं कार्यात्पूर्वभावि पश्चाद्भावि च कार्यमिति सर्वजनप्रतीतिबाधा स्यात्, तत्र दृष्टान्तमाह - 'साहु' चि साधुशरीरात्मोक्षः - सर्वकर्मक्षयलक्षणसिद्धिः स्याद्, यदागमः - " अहो जिणेहिं असावा, वित्ती साहूण देखिआ । मुक्खसाहणहेउस्स
Jain Education International
For Personal and Private Use Only
DISO14001DIGIONS
श्रुतदेवतादिस्तुतिसिद्धिः
॥१९॥
www.jainelibrary.org.

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 356